SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ४४८ व्याश्रयमहाकाव्ये [चामुण्डराजः] जयन्त इव रेजे । यतः कीदृक् । सुगूर्जरं गूर्जराणां गूर्जरदेशोद्भवनृणां शोभनायामृद्धौ न्यायपालकत्वाद्धेतुः । तथानेकभारद्वाजं भरद्वाजस्यर्षे. रिमेपत्यत्वेन भारद्वाजा अनेकोविद्यमान एको येष्विति कृत्वानेका वा भारद्वाजा वंश्या अर्थात्स्वस्य । भारद्वाजा हि चौलुक्यानामाद्याः प्रवर्तयितारो धर्मगुरवश्चेति श्रुतिः । तेषु धर्मगुरुषु विषये वरो धार्मिकत्वाद्भक्तिपूजादिकरणेन श्रेष्ठः । तथोपगूर्जरेन्द्रे मूलराजसमीपेधिसद्भक्ति प्रधानभक्तौ विनीतत्वात्स्थितोत एव त्रिगङ्गं तिस्रो भूर्भुवःस्वस्त्रयस्था गङ्गाः समाहृतास्तत्र । लोकत्रयेपीत्यर्थः । गीतगुणः । जयन्तोप्यनेकभारद्वाजं वर इन्द्रसमीपेधिसद्भक्ति स्थितोत एव त्रिगङ्गं गीतगुणश्च ॥ ऋद्ध । सुगूर्जरम् ॥ नदी । त्रिगङ्गम् ॥ वंश्य । अनेकभारद्वाजम् । इत्यत्र "ऋद्ध" [५] इत्यादिना सप्तम्या अम् ॥ अधिसद्भक्ति । इत्यत्र “अनतो लुप्" [६] इति स्वादेर्लुम् ॥ अनंत इति किम्। उपगूर्जरेन्द्रे । स्वः। इव । अत्र "अव्ययस्य" [७] इति स्यादेर्लुप् ॥ यशस्यति क्ष्मानयसूत्रधारे सदा परस्त्रैणमनङ्गरूपे । यत्प्राक्श्रियंमन्यमिहाश्रिमन्यं स्त्रींमन्यतामप्यभितोमुचत्तत् ॥ ८॥ ८. यत्परखैणमन्येषां स्त्रीसमूहः प्राक्पूर्व सौभाग्यादिगुणश्रीगण सदा श्रियंमन्यं हरिप्रियातुल्यमात्मानं मन्यमानमासीत्तदिह कुमारे सत्यश्रियंमन्य लक्ष्मीतुल्यमात्मानममन्यमानं सत्स्त्रींमन्यतामप्यास्तामश्रियंमन्यतां १ ए सी प्राप्रियं. १ए सी गुरुव. २ ए सी डी रुष वि. ३ सी कवये'. ४ ए सी °न इ. ५ सी श्रियम'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy