SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ [है० ३.२.४.] षष्ठः सर्गः। ४४७ प्रियोपतृद्धः स निशम्य पार्थवृत्तान्युपव्यासमुपेशगेहे । किमूपतूणेन किमूपचापं गुरो रणाज्ञां हि विनेति दध्यौ ॥६॥ ६. स कुमारः प्रियमुपवृद्धं ज्ञानवृद्धादिसमीपं यस्य स तथा सन्नुपेशगेहे रुद्रप्रासादसमीपे कथामण्डपादावुपव्यासं व्याससमीपे पार्थवृत्तानि शत्रुजयादिविषयाण्यर्जुनचरितानि निशम्याकर्ण्य दध्यावचिन्तयत् । किमित्याह । गुरोः पितू रणाज्ञां युद्धविषयादेशं विना हि स्फुटमुपतूणेन निषङ्गयोः सामीप्येन किमु तथोपचापं धनुःसामीप्येन च किमु । यावत्पितू रणाज्ञो न स्यात्तावन्निरर्थकत्वाद्धनुर्विद्याभ्याससूचकेन रणार्थ पार्श्वस्थेन तूणद्वयेन चापेन च मम न किंचिदिति पूर्वमहापुरुषावदांताकर्णनोद्भूतातिरिक्तरणोत्साहादचिन्तयदित्यर्थः ।। ___ उपप्राच्यसंस्कारम् । उपवृद्धं सेवमानः। उपवृद्धं स्पृहयन् । उपवृद्ध भक्तः । इत्यन्न "अम्" [२] इत्यादिना स्थारैम् ॥ अव्ययीभावस्येति किम् । पार्थवृत्तानि ॥ तत्संबन्धिनः स्यादेरिति किम् । प्रियोपवृद्धः ॥ अत इति किम् । अधिस्त्रि ॥ अपञ्चम्या इति किम् । उपाक्षात् ॥ किमुपचापम् किमूपतूणेन । इत्यत्र “वा तृतीयायाः"[३] इति वाम् ॥ उपव्यासम् उपेशगेहे । अत्र “सप्तम्या वा” [४] इति वाम् ॥ सुगूर्जरं हेतुरनेकभारद्वाजं वरो गीतगुणस्त्रिगङ्गम् । स्थितोधिसद्भक्त्युपगूर्जरेन्द्रे स्वरीशितुः पुत्र इवैष रेजे ॥ ७॥ ____७. एष कुमारः स्वः स्वर्गस्येशितुः स्वामिनः शक्रस्य पुत्र इव १ ए सी निसम्य. २ सी चाप गु. ३ ए सी सगू। १ ए सी गयो सा. २ ए सी ज्ञानं स्या'. ३ सी °णार्थ पा. ४ डी किम् । ... ... ... पार्थ". ५ बी दानाक'. ६ ए सी रन् ।। म. ७ एसी डी स्वः सर्ग. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy