SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [चामुण्डराजः] विद्याभिः । इतरेतर संकेतयोगात्कलामिः शास्त्रैः । इत्यत्र "परस्पर" [२] इत्यादिनापुंस्यमादेशो वा ॥ परस्परमप्रतिबाधनेन गुणैः । अन्योन्यमुत्कर्षितया गुणैः । इतरेतरं संकेतयोगाद्धीगुणैः । इत्यत्र "परस्पर" [१] इत्यादिना पुंसि स्यादेरम्वा ॥ पक्षे । द्वेषं परस्परेण । अन्योन्यस्य भूषाम् । इतरेतरस्य विशेषान् ॥ शेषविभत्त्यन्तानि विकल्पोदाहरणानि ज्ञेयानि । एवं च स्त्रीनपुंसकयोरमामौ द्वावादेशौ वा भवतः॥ यत्सेवमानः स्पृहयंश्च भक्तस्तथोपवृद्धं विरमन्नुपाक्षात् । असावधिस्यव्यसनी तदस्योपप्राच्यसंस्कारमलं निमित्तम् ॥ ५॥ ५. यदिति क्रियाविशेषणम् । यदसौ कुमारोभूत् । कीदृक् । उपवृद्ध वृद्धा ज्ञानादिवृद्धास्तेषां समीपाय स्पृहयंश्च ज्ञानाद्यर्थमभिलषन्वृद्धानां समीपस्य भक्तस्तथा बहुमानवांश्चात एव वृद्धानां समीपमासेवमानोत एव चोपाक्षात् । अक्षब्देनात्र पाशकोपलक्षितं द्यूतमुच्यते । तत्समीपाद्विरमन् द्यूतव्यसनानिवृत्त इत्यर्थः । यद्वा । विषयविषयिणोरभेदोपचारादाशब्देनेन्द्रियविषयाः शब्दरूपरसगन्धस्पर्शा उच्यन्ते । तत्समीपाद्विरम जितेन्द्रिय इत्यर्थः । अत एव चाधिस्त्रि स्त्रीष्वव्यर्सन्यत्यासक्तिरहितः । तज्ज्ञायतेस्य कुमारस्योपप्राच्यसंस्कार प्राच्याः पूर्वजन्मभवा ये संस्कारा वृद्धसेवादिनिरन्तराभ्यासजनिता वासनास्तेषामनन्तरपूर्वभवापेक्षया सामीप्यं कर्तृ अलं समर्थ निमित्तं कारणम् । यदयं स्वभावेनैव गुरुसेवापरायणत्वादिगुणोपेतस्तत्रानन्तरपूर्वभवाभ्यास एव हेतुरित्यर्थः ॥ १ सी शोशा । प. २ एतयोः गा. ३ बी न्यभू. ४ ए नि वक. ५ बी वंस्त्री. ६सी तं श्वद्य. ७बी यऽत ए. ८ ए सी सनी सत्या. ९ °स्कारा वृ. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy