SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ याश्रयमहाकाव्ये षष्ठः सर्गः। अहम् ॥ यथावदाराधयतस्त्रिवर्ग चामुण्डराजोस्य सुतोथ जज्ञे । परस्परां वाकमला च तेजःसौम्ये च नूनं मिषती श्रिते यम् ॥१॥ १. अथानन्तरमस्य मूलराजस्य यथावद्यथोचियेन परस्परानाबाधया । स्ववेलायामित्यर्थः । त्रिवर्ग धर्मार्थकामानाराधयत आसेवमानस्य सतश्चामुण्डराजः सुतो जज्ञ उत्पेदे । यं चामुण्डराजं वाक् सरस्वती च कमला च लक्ष्मीस्तेजः प्रतापः सोम इवाह्लादकत्वात्सोमः कान्तस्तद्भावः सौम्यं कान्तत्वम् । द्वन्द्वे। ते च श्रिते । नूनं शङ्के । परस्पराम् । स्पर्धमानः स कृष्णम् । मेरु स्पर्धिष्णुनेवान्यो धृतो नाको हिमाद्रिणा । इत्यादाविव प्राप्येत्यध्याहारेण परस्परस्य व्याप्यत्वात्परस्परं कर्म परस्परेण सह वा परस्परार्थं वा परस्परस्मात्सकाशाद् गम्ययबपेक्षया "गम्ययपः" [२.२.७४] इति पञ्चम्यां परस्परमाश्रित्य वा परस्परस्य संबन्धिनो वा परस्परस्मिन्वा मिषती स्पर्धमाने । ये हि मिथो मिषतस्ते मिथोभिभवेच्छयोत्कृष्टस्वामिनं श्रयेते। वाक्कमले तेजःसौम्ये च मिथो विरुद्ध अमुं चाश्रिते इत्येवमाशङ्का । सर्गेस्मिन्नुपजातिच्छन्दः ॥ १ बी ती क. २ ए सी डी मानस. ३ ए सी डी पनी मर्टप. ५बी मलते. वापर'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy