SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ४४४ व्याश्रयमहाकाव्ये चामुण्डराजः] द्वेषं परित्यज्य परस्परेण परस्परं चाप्रतिबाधनेन । अन्योन्यमुत्कर्षितया च मित्राणीवात्र विद्याश्च गुणाश्च तस्थुः॥२॥ २. मिथो विरुद्धा अपि धर्मशास्त्रकामशास्त्रादिविद्या दानाविकस्थनत्वादयो गुणाश्च मित्राणीवात्र कुमारे तस्थुः । कथमित्याह । परस्परेण सह द्वेषमेकत्रानवस्थानरूपं विरोधं परित्यज्य । तथा परस्परं परस्परेण कृत्वा परस्परार्थं वा परस्परस्मात्सकाशात्परस्परमाश्रित्य वा परस्य कर्मणो वा परस्परस्मिन्वा प्रतिबाधनेनोचिते स्वस्वकाले द्वयानामप्यासेव्यमानत्वादपीडनेन । तथान्योन्यं यथार्थसंबन्धम् । सर्वविभत्त्यर्थः पूर्ववद्भावनीयः । एवमग्रेपि । उत्कर्षितया च मिथो विशेषेकत्वेन च हेतुना। तथाहि । धर्मशास्त्रविद्यानुसारेण धर्मप्रवृत्तिर्भोगफलत्वेन विशिष्टकामहेतुरिति कार्यद्वारेण धर्मशास्त्रविद्या कामशास्त्रविद्योत्कर्षिणी । कामशास्त्रविद्यानुसारेण च कामप्रवृत्तिः संततिवृद्धिफलत्वाद्धर्मवृद्धिहेतुरिति कार्यद्वारेण कामशास्त्रविद्यापि धर्मशास्त्रविद्योत्कर्षिणी । तथा दानेनाश्लाघा विशिष्यतेश्लाघया तु त्याग इति । मित्राण्यपि मिथो द्वेषं त्यजन्ति मिथः कलहादिना न बाधन्ते च मिथो गुणोत्कीर्तनादिनोत्कर्षयन्ति च ॥ शक्तिक्षमे यौवनसंयमित्वे युते न दृष्टे इतरेतरां हि । तथापि ते तादृशनीतिभाज्यन्योन्यां चिरं चक्रतुरत्र योगम् ॥३॥ ३. यद्यपि शक्तिक्षमे यौवनसंयमित्वे तारुण्येन्द्रियजयौ च हि स्फुटमितरेतरामन्योन्यं युते संबद्धे मिथो विरुद्धत्वान्न दृष्टे । यद्वा । १ सी र वाप्र . २ ए सी तिराज्य'. १ ए सी डी रस्य. २ ए सी डी पत्वे'. ३ डी विद्यो का. ४ वी °द्यापि का. ५ ए सी यजियो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy