SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ४४२ व्याश्रयमहाकाव्ये [मूलराजः] वर्षाशरन्मेवतुल्यम् । क सति ययौ । विधौ चन्द्रे । कीदृशे । अतिमघाश्लेषेश्लेषामघानक्षत्रातिक्रान्ते । अस्य च विशेषणस्याप्रावेशिकनक्षत्रातिक्रमस्योपलक्षणत्वात्पूर्वफल्गुन्या अप्यप्रावेशिकत्वात्तामप्यतिक्रान्ते । उत्तरैफल्गुनीस्थ इत्यर्थः । उत्तरफल्गुनी हि स्थिरस्वभावत्वात्प्रावेशिकनक्षत्रम् । अश्लेषा क्रूरस्वभावत्वेन मघापूर्वफल्गुन्यौ चोग्रस्वभावत्वेनानिष्टफलत्वादप्रावेशिक्यः । यदुक्तं रत्नमालायाम् । शुभः प्रवेशो मृदुभिर्धवक्षैः क्षिप्रैश्चरैः स्यात्पुनरेव यात्रा। उप्रैर्नृपो दारुणभैः कुमारो राज्ञी विशाखासु विनाशमेति ॥ उग्रादिभिभैः प्रवेशे नृपादिविनाशमेतीति संबन्धः । अश्लेषामघापूर्वफल्गुनीरतिक्रान्ते चेन्दौ मूलराजस्याष्टमो नवमश्चेन्दुरशुभोपयातीति हेतोश्चातिमघाश्लेष इति विशेषणं विधोः॥ भ। कृत्तिकारोहिणी ॥ ऋतु । प्रावृष्टरत् । अत्र “भर्तु" [१६२] इत्यादिना भमृतश्चानुपूर्व प्राग्निपतेत् ॥ तुल्यस्वरमिति किम् । मघाश्लेपे । ग्रीष्मवसन्तयोः॥ . बहुव्रीहौ । पञ्चष॥ द्विगौ । अष्टशत्या ॥ द्वन्द्वे । द्वौ च दश च द्वादश । इत्यत्र "संख्या समासे" [१६३] इति संख्यानीमनुपूर्वं पूर्व निपतेत् ॥ शार्दूलविक्रीडितं छन्दः ॥ नवमः पादः समर्थितः॥ - इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेम . चन्द्राभिधानशब्दानुशासनध्याश्रयवृत्तौ पञ्चमः सर्गः समर्थितः ॥ १बी तिमेघा. २ बी फाल्गु. ३ बी रफाल्गु. ४ बी रफाल्गु. ५ बी वफाल्गु.६ ए सी डी °वक्षैः क्षि. ७ बी 'दि विना. ८ बी फाल्गु. ९ बी 'तुपू. १० बी नामानु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy