________________
[ है० ३.१.१६१.]
पञ्चमः सर्गः।
४४१
फलमाह ।
प्राप्ते वसन्तसमये सुरसत्तमानामान्दोलनं नरवरा ननु कुर्वते ये । ते प्राप्नुवन्ति भुवि जन्मतरो: फलानि
दुःखार्णवोत्कुलशतान्यपि तारयन्ति । अस्मिंश्च पर्वणि सोमनाथस्य चतुर्वर्णैर्महाविस्तरेण दोलामहोत्सवः क्रियते ॥
फाल्गुनचैत्रयोः । ब्राह्मणक्षत्रवि द्वैः । विनायकस्कन्द । इत्यत्र "मासवर्ण" [१६१] इत्यादिना मासाद्यनुपूर्व पूर्व निपतेत् ॥
स प्रादुरदद्मविभ्रममिभत्वग्भस्मतः कृत्तिकारोहिण्यात्मजसंनिभः क्षितिपतिः स्तुत्वेति देवं ततः। उत्को ग्रीष्मवसन्तयोरतिमघाश्लेषे विधौ द्वादशा
श्रीः पञ्चषवास र्निजपुरं नागाष्टशत्या ययौ ॥ १४२ ॥ १४२. ततः स्तवनानन्तरं स क्षितिपतिर्मूलराजो द्वादशार्कश्रीविजयादतिप्रतापी सन्नागाष्टशत्या हस्तिनां शताष्टकेन सह पञ्चषवासरैः पञ्चभिः षड्भिर्वा दिनैः । शीघ्रमित्यर्थः । स्वपुरं ययौ । यतो ग्रीमवसन्तयोरुपचाराद्वसन्तर्तुग्रीष्मर्तुसहचरितासु पुष्पोच्चयजलक्रीडादिक्रियासु विषय उत्क उत्कण्ठितः । किं कृत्वा ययौ । देवं शंभुमित्युक्तरीत्या स्तुत्वा। कीहक्सन् । कृत्तिकारोहिण्यात्मजौ स्कन्दबुधौ तयोः संनिभः शंभुविषयान्तरभक्तिपाण्डियाभ्यां तुल्यः । किंभूतं देवम् । इभत्वग्भस्मतो गजचर्माच्छादनभस्माङ्गरागाभ्यां सकाशात्प्रायटरदभ्रविभ्रम १ ए सी भ्रम. १ ए सीडी ननु व. २ एसी वाकुल'. ३ बी ऎमहा. ४ एसी है। वि. ५ डी रंक्षि.६ सी नाष्ट. ७ सीहिणीत्म. ८ बीवमभ.९ सी तो जगच'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org