________________
[है० ३.१.१६१.]
पञ्चमः सर्गः।
४३९
सखिवर्जनं किम् । सुतसखे । सखिसुत ॥ एकमिति किम् । युगपदनेकस्य पूर्वनिपाते प्राप्त एकस्यैव यथा पूर्व निपातः शेषाणां तु कामचार इति प्रदर्शनार्थम् । शङ्खदुन्दुभिवीणाभिः। वीणादुन्दुभिशङ्खाः । वीणाशङ्खदुन्दुभीन् ॥
विनायकस्कन्दगुरो पुण्यैः फाल्गुनचैत्रयोः।
ब्राह्मणक्षत्रविद्वैः प्रेक्ष्यसे ग्रीष्मदोलयोः ॥ १४१॥ १४१. विनायकस्कन्दगुरो हे गणेशकार्तिकेययोः पितः फाल्गुनचैत्रयोर्ये ग्रीष्मदोले ग्रीष्मपर्वदोलापर्वणी तयोर्ब्राह्मणक्षेत्रविद्रैः कर्तृभिः पुण्यैः कृत्वा त्वं प्रेक्ष्यसे । फाल्गुने पौर्णमासी ग्रीष्मपर्वाच्यते । यतोत्र काष्ठखगव्यग्रकरैर्बालकैः शिशूनां महासन्तापकत्वेन ग्रीष्मतुल्यत्वादीष्मा ढुण्डाराक्षसीकृतोपद्रवा उत्तार्यन्ते। यदुक्तं भविष्योत्तरे । पुरा रंघुर्नाम राजासीत् । तस्य राज्ये वर्तमाने ढुण्ढा नाम राक्षसी बभूव । सा बालानामुपद्रवं कुरुते। ततो विरागयुक्ताः सदुःखाः सर्वेपि पौरा नृपमूचुः । देव तव राज्येस्मद्वालानां महानुपद्रवो भवति । तत्रायस्व । ततो राजा गुरु वशिष्ठं सप्रश्रयमुवाच। कोसावदृष्टो बालानामुपद्रवकारी । तच्छ्रुत्वा वशिष्ठ ऊचे । देव ढुण्डेति नाम राक्षसी तपःप्रभावाल्लब्धवरा बालेभ्योन्यैरवध्या। अतः सा बालान्पीडयति । तदद्य फाल्गुने पूर्णिमायाः।
अस्या निशागमे पार्थ संरक्ष्याः शिशवो गृहे । गोमयेनोपसंलिप्ते सचतुष्के गृहाङ्गणे । आकारयेच्छिशून्प्रायः खड्गव्यग्रकरानरान् ॥ १ ॥
१ ए सी डी एवमि. २ ए सी न्दुभिरीन् ।. ३ बी १४१ हे वि. ४ ए सी डी र्वणी. ५ ए सी क्षत्रेवि . ६ ए सी ल्गुनै पौ. ७ सी व्यद्यग्र'. ८ सी यते । य. ९ सी रघूनाम. डी रघुनामा रा. १० बी वसिष्ठ'. ११ ए सी शिवावो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org