________________
व्याश्रयमहाकाव्य
[मूलराजः] श्रद्धातपोभ्यां संपन्ना अर्चित्वा बिल्वगुग्गुलैः ।
शङ्खदुन्दुभिवीणाभिर्धन्यास्त्वां पर्युपासते ॥ १३९ ॥ १३९. सुगमः । किं तु । श्रद्धातपोभ्यां संपन्ना इत्यनेन बिल्वगुग्गुलैरित्यनेन च शिवरात्रिपर्व ज्ञापितम् । तत्रैव हि विशेषतो बिल्वपत्रैर्गुग्गुलैश्च शंभोः श्रद्धोपवासतपःसंपन्नैर्जनैरर्चा क्रियते ॥
वीणादुन्दुभिशङ्खास्ते प्रिया इति पुरस्तव ।
गृह्णन्ति नारदप्रख्यास्ते वीणाशङ्खदुन्दुभीन् ॥१४॥ १४०. सुगमः । नवरम् । ते गन्धर्वविद्याकौशल्यादिना प्रसिद्धा नारदप्रख्या नारदो देवब्रह्मा तन्मुख्यास्तत्सदृशा वा गन्धर्वविद्याधराद्याः॥
प्रियमृषावादस्य विश्वप्रिय । इत्यत्र "प्रियः" [१५७] इति वा प्रियः प्राग्निपतेत् ॥
कडारजैमिनिः जैमिनिकडारस्य । वृद्धमनु मनुवृद्ध । इत्यत्र "कडार" [१५८] इत्यादिना कडारादेवा प्राग्निपातः ॥
धर्मार्थाभ्याम् अर्थधर्म । आद्यन्तौ अन्तादी । इत्यत्र "धर्मार्थ" [१५९] इत्यादिनाप्राप्तपूर्वनिपातं वा पूर्व निपतेत् ॥ - लघ्वक्षर । तिलमाष ॥ असखीदुत् । अग्नीषोमौ वायुतोय ॥ स्वराद्यत् । अस्वशस्त्रैः ॥ अल्पस्वर । बिल्वगुग्गुलैः ॥ अर्घ्य । स्कन्दश्रीद । इत्यत्र “लध्वक्षर[१६०]इत्यादिना लध्वक्षरादि प्राग्निपतेत् ॥ स्पर्धे परमेव । श्रद्धातपोभ्याम् ॥
१ ए सी ज्ञास्त्वां.
. १ ए सी लै इत्य. २ बी ल्वपात्रै'. ३ ए सी मिनिजै. ५ ए सी थमर्थ । आ.
गुग्गु. ४ ए सी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org