SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ [है० ३.१.१५७.] पञ्चमः सर्गः। ४३७ ब्रह्मादीनां त्वमन्तादी तवाद्यन्तौ न कश्चन । अग्नीषोमौ वायुतोयाद्याश्च ते तिलमाषवत् ॥ १३७ ॥ १३७. ब्रह्मादीनामादिपदाद्विष्ण्वादीनामन्तादी संहारांत्सर्जनाच्च निधनोत्पत्तिकारणं त्वम् । यदुक्तम् । ब्रह्मादीनपि भगवंस्त्वमेव संसृजसि संहरसि चैव । इति । तव त्वाद्यन्तावुत्पत्तिविनाशहेतुरनादिनिधनत्वान्न कश्चन । उक्तं च। अनादिनिधनं देवं जगत्कारणमीश्वरम् । इति ॥ अतश्चाग्नीषोमौ वह्निदेवतासोमदेवते वायुतोयाद्याश्च वायुदेवताजलदेवताद्याश्चाद्यपदादेवतादयश्च ते तव तिलमाषवत्तिलमाषा इवाल्पास्त्वदंशमात्रमित्यर्थः ॥ स्कन्दश्रीदसुतेसखे त्यक्त्वा सखिसुतादिकम् । यस्त्वां ध्यायेत्रिलोक्यां स्यादनशस्त्रैः स दुर्जयः ॥१३८॥ १३८. स्कन्दश्रीदौ कार्तिकेयधनदौ सुतसखायौ यस्य हे स्कन्दश्रीदसुतसखे हे शंभो सखिसुतादिकमादिपदाद्भार्यादिकं संसारबन्धनं त्यक्त्वा यस्त्वां ध्यायेत्स नरखिलोक्यामस्त्राण्याग्नेयादीनि दिव्यायुधानि शस्त्राणि खगादीनि द्वन्द्वे तैर्दुर्जयः स्यात् । केनौप्यसौ न जीयेतेत्यर्थः ॥ १ सी नां दी त. २ ए सी डी तसुखे. १ ए सी रास्रजं. २ ए सी डी ताद्या . ३ बी याद्य. ४ ए सी डी "द्भूतदे'. ५ बी तसुखा. ६ सी धने त्य'. ७ सी नाप्यासौ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy