SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ [है० ३.१.१४३.] पञ्चमः सर्गः । ४३१ नागाश्च द्यन्नुपदशं धन्नासन्नदशान् रथान् । राजदन्तैर्दशनोष्ठं प्रासमुल्लास्य सोक्षिपत् ॥ १२६ ॥ १२६. स लक्षः प्रासं कुन्तमुल्लास्य स्फोरयित्वाक्षिपन्मूलराजाभिमुखं प्रेरितवान् । कहिक्सन् । उपदशं नवसंख्यमेकादशसंख्यं वा नागाश्वं यन्महाबलत्वात्खण्डेयंस्तथासन्नदशान्नवैकादश वा रथान् द्यस्तथा राजदन्तैर्दन्तानां राजभिरुपर्यधश्च मध्यदन्तरोष्ठं कोपाद्दशन् । लिप्तवासितदिक्कीाथोष्णगुश्रीः षड्डन्नतः। कुन्तेन सर्वसारेणावधील्लक्षं चुलुक्यराट् ॥ १२७ ॥ १२७. अथ चुलुक्यराड् मूलराजः सर्वः सारः प्रधानलोहभेदो यत्र तेन सर्वसारलोहमयेन कुन्तेन लक्षमवधीत् । कीदृशः । महापुरुषत्वेन सल्लक्षणलक्षितत्वात्पट् शिरो हृत्स्कन्धौ पादौ चोन्नता उच्चा यस्य सः । तोष्णगुश्री रवितुल्यतेजा अत एव कीर्त्या लिप्तवासिताः पूर्व वासिता आमोदिताः पश्चालिप्ता व्याप्ता दिशो येन सः ॥ धन्याख्यन्याः सुराः स्त्रीभिः पुष्पवृष्टिमथ व्यधुः । कृतप्रिये क्षणात्तस्मिन्कृतोग्ररिपुनिग्रहे ॥ १२८॥ · १२८. अथ सुराँस्तस्मिन्मूलराजे क्षणात्पुष्पवृष्टिं व्यधुः । कीदृशाः सन्तः । स्त्रीभिः स्वभार्याभिर्देवीभिः कृत्वा द्वे अन्ये येषां ते व्यन्यास्तिस्रोन्या येषां ते व्यन्याः । केचिद्देवीद्वयोपेताः केचिच्च देवी–ययुक्ता इत्यर्थः । यतः कीदृशे । कृतप्रिये विहितसुराभीष्टे । एतदपि कुत १ ए सी न्यानन्याः. २ ए सी सुरा स्त्री. १ए सी प्रासकु. २ सी °ण्डयस्त'. ३ सीथ चूलु. ४ सी सर्वसा. ५ ए सी डी सलक्ष. ६ बी थोष्णुगु. ७ ए सी ता अमो. ८ सी राजे. ९ ए र्यादिदें. सी र्यादिदेवी. १० ए सी त्रयं यु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy