________________
४३२ ध्याश्रयमहाकाव्ये
[मूलराजः] इत्याह । यतः कृत उग्रो मारणात्मको रिपोर्लक्षस्य निग्रहो येन तस्मिन् ॥
ग्राहारि सोमुचत्कृत्ताङ्गुलीकं भिक्षितः पतिम् ।
तस्य पाणिगृहीतीभिर्वालहीतपाणिभिः ॥ १२९ ॥ १२९. स मूलराजो ग्राहारिममुचत् । कीदृशं सन्तम् । कृत्ता छिन्नाङ्गुल्यर्थात्कनिष्ठा येन यद्वाङ्गुल्यां कृत्तं येन तं स्ववेलायत्तं कृत्वेत्यर्थः । यतो बालैः कर्तृभिर्गृहीतपाणिभिरात्तहस्ताभिः सतीभिर्मूलराजस्य कृपातिरेकोत्पादनाय बालकान्हस्तेषु गृहीत्वेत्यर्थः । तस्य ग्राहारेः पाणिगृहीतीभिर्भार्याभिः पतिं भर्तारं भिक्षितोस्मभ्यं पतिभिक्षां देहीति याचितः ॥
ततः प्रभृति सौराष्ट्रः स्त्रीवेषो जातजन्मभिः।
अजन्मजातैश्वोपात्तः प्राह राजिभुवो यशः ॥१३० ॥ १३०. ततः प्रभृति तस्मान्मोक्षदिनादारभ्य स्त्रीवेष आप्रपदीनशाटिकापरिधानकच्छादानाभावलक्षणो नारीवेषो राजिभुवो मूलराजस्य यशः सौराष्ट्रजयोत्यां कीर्तिं प्राह । संप्रत्यपि ज्ञापयतीत्यर्थः । कीहक् । सौराष्ट्र: सुराष्ट्रादेशोद्भवैलॊकैरुपात्तो वयं मूलराजस्य पुरः स्त्रीकल्पा इति ज्ञापनाय गृहीतः । कीदृशैः । जातजन्मभिः । जन्मशब्दोत्र जन्मप्रभृतिजीवितकालवाची । जातं बाल्ययौवनवार्धक्यावस्थात्रयोपभोगेन कृतकृत्यत्वान्निष्पन्नं परिपूर्णीभूतं जन्म जन्मवारी येषां तैरतिवृद्धैरित्यर्थः । तथा न जातं वार्धक्यानुपभोगेनाकृतार्थस्वादपरिपूर्णीभूतं जन्म येषां तैश्च बालैस्तरुणैश्चेत्यर्थः ॥
१ ए सी कृत्वा छि'. २ सी ही. ३ सी तिरोको'. ४ बी णिYही. ५ ए सी डी हीभि.° ६ बी शः सुरा. ७ ए सी वैलोकै. ८ सी जम्मश. ९ डी मवा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org