________________
४३०
व्याश्रयमहाकाव्ये [मूलराजः] इत्यत्र “नदीदेश' [१४२] इत्यादिना द्वन्द्व एकार्थः ॥ स्वैरित्येव । शौर्यकेतवते ॥ पुरग्रामसभेदेपीच्छत्यन्यः । शौर्यकेतवतस्य ॥ पूर्देशसंभेदेपोत्यपरे। वाराणसीकुरुक्षेत्रम् ॥ देशग्रहणेन चैह जनपदानां ग्रहणं पृथग्नदीपूर्ग्रहणात् । तेनेह न स्यात् । गौरीकैलासौ ॥
तक्षायस्कारम् । इत्यत्र “पाव्यशूद्स्य" [१४३] इति द्वन्द्व एकार्थः ॥
आनीयेषून गवाश्वेनोष्ट्रखरेणार्पयन्भटाः । सध्रीची दधिपयसोः कीर्तिमाकाङ्कतोस्तयोः ॥ १२४ ॥
१२४. तयोर्मूलराजलक्षयोर्गवाश्वेनोष्ट्रखरेण च कृत्वेषूनानीय भटा आर्पयन् । एतेन वाणक्षेपस्यातिबाहुल्यमुक्तम् । कीदृशोः सतोः। दधिपयसोर्दधिदुग्धयोः सधीची निर्मलां जयोत्था कीर्तिमाकाङ्कतोः ।।
षभिर्गोमहिषैर्वाह्य सदृग्दृग्मधुसर्पिषोः। तुल्योर्मुपदशैर्नागाश्वैर्लक्षः कुन्तमुद्दधे ॥ १२५ ॥ १२५. षड्भिर्गोमहिषर्वाह्यं वोढुं शक्यं महाभारमित्यर्थः । लक्षः कुन्तमुद्दधे मूलराजे क्षेपार्थमुत्पाटितवान् । कीदृक् । मधुसर्पिषोः सदृग्हक्कोपारक्तत्वात्तुल्याक्षः । तथोपगताः समीपगता दर्श दशत्वं येषां तैनवभिरेकादशभिर्वा नागाश्चैर्हस्तियैस्तुल्यो समानबलः ॥
१बी धैर्बाह्यं.
१ बीरे । बाणारसी. २ ए सी चेय ज. ३ ए सी डी पात्रशू. ४ बी लल'. ५ सीजक्ष. ६ बी पर्वाह्यं. ७ बी धेमूल°. ८ ए सी शभि द. ९ ए सी डी त्वं तै'. १० ए बी सी डी ल्योग स.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org