SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ [है० ३.१.१४२.] पञ्चमः सर्गः। ४२९ थौ शरा एव संततोच्छलितत्वादूर्मयः कल्लोलास्तेषां या मालाः श्रेणयस्ताभिः कृत्वा गङ्गाशोणं प्रचक्रतुः जाह्नवीनदमिव प्रचक्रतुः । नुरुपमायाम् । यथा द्वारकाकुण्डिनस्य नाथौ। द्वारकापुरीनाथो विष्णुः। कुण्डिनपुरनाथश्च विष्णुश्यालो रुक्मी । रुक्मिण्यपहारकाले महायुद्धविधानाच्छरोमिमालाभिर्गङ्गाशोणं प्रचक्रतुः ॥ वाराणसीकुरुक्षेत्रं प्राप्याजि तावहृष्यताम् । शौर्यकेतवतस्येशौ शोर्यकेतवते इव ॥ १२२ ॥ १२२. स्पष्टः । किं तु । वाराणसी च पू: । कुरुक्षेत्रं च देशः । द्वयमपि लोके महातीर्थत्वेन प्रसिद्धम् । इवोत्र ज्ञेयः । स्वर्गहेतुत्वेने वाराणसीकुरुक्षेत्रतीर्थतुयामित्यर्थः । शौर्य पुरम् । केतवता च ग्रामः॥ दायेन गौरीकैलांसौ तदा तावनुचक्रतुः । अस्त्रैरस्त्राणि तक्षन्तौ तक्षायस्कारमक्षतौ ॥ १२३ ॥ १२३. तदा दाढ्यन बलिष्ठत्वेन स्थैर्येण वा गौरीकैलासौ गिरिभेदाविव तौ मूलराजलक्षौ तक्षायस्कारं काष्ठतडोहकारमनुचक्रतुः । यतोरस्त्राणि तक्षन्तौ छिन्दन्तौ । तथाक्षतौ स्वयं प्रहाररहितौ । तक्षायस्कारमपि हि स्वयमक्षतं सदस्वैर्वासीघनादिभिरस्त्राणि चापखगादीनि तक्षति ॥ नदी । गङ्गाशोणम् ॥ देश । गूर्जरत्राकच्छस्य ॥ पुर् । द्वारकाढुण्डिनस्य । १ बी बाणारसी. २ ए सी डी लासो त. १ वी माला श्रे. २ बी णं जा. ३ बी नाच्छिरो'. ४ बी तु । बाणारसी. ५ बी न बाणारसी. ६ ए सी ल्यानित्य. ७ ए सी डी शौर्यपु. ८ ए सी रत्राणि. ९ ए सी तक्षिन्ती. १० सी न्तौ . स्व. ११ बी सी डी पुर । द्वा. १२ वी द्वारिका. १३ ए सी डी कुण्डन. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy