SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४२८ व्याश्रयमहाकाव्ये [मूलराजः] ऋतूं पुंलिङ्गावपि स्त इति पयुदासाश्रयणेत्रापि स्यात् ॥ अध्वर्युग्रहणं किम् । इषुवज्रयोः । अध्वर्यवो यजुर्वेद विदस्तेषां वेदोप्यध्वर्युस्तत्र विहिताः क्रतवोश्वमे. धादयोध्वर्युक्रतवः । इषुवज्रौ तु सामवेदविहिताविति ॥ . युत्संहिताया विस्तारात्पदकक्रमकं नु तौ । स्तुतौ देवासुरैः सर्पनकुलं नु विरोधतः ॥ १२० ।। १२०. तौ देवासुरैः स्तुतौ देवैर्मूलराज: प्रशंसितोसुरैस्तु लक्ष इत्यर्थः । किंभूतौ सन्तौ । विरोधतो वैराद्धेतोः सर्पनकुलं नु सर्पनकुलतुल्यावत एव युद्रणं सैव स्वर्गफलत्वात्संहिता वैदिको ग्रन्थस्तस्या विस्ताराद्विस्तारणाद्धेतोः पदकक्रमकं नु पदानन्तरं क्रमस्य पाठीत्पदक्रमौ निकटपाठौ पाठविशेषावधीयाते “पदक्रम” [६.२.१२६] इत्यादिनाके पदकश्च क्रमकश्च तदिव । यथा पदाध्यायकक्रमाध्यायको यथोक्तेन संहितास्थपदक्रमपठनेन संहिताया विस्तारकावेवं युधो विस्तारकावित्यर्थः ॥ पदकक्रमकम् । इत्यत्र “निकटपाठस्य" [१४०] इति द्वन्द्व एकार्थः ॥ सर्पनकुलम् । इत्यत्र “नित्यवैरस्य" [१४१] इति द्वन्द्व एकार्थः ॥ तौ गूर्जरत्राकच्छस्य द्वारकाकुण्डिनस्य नु । नाथौ शरोमिमालाभिर्गङ्गाशोणं प्रचक्रतुः ॥ १२१ ॥ १२१. तौ मूलराजलक्षौ गूर्जरत्राकच्छस्य गूर्जरत्राकच्छदेशयो १ ए बी सी डी तू पुल्लिङ्गा . २ सी थेवा य'. ३ ए सी ध्वर्यस्त. ४ ए सी युक्रवत'. ५ बी रैः सुरैर्देवै. ६ ए सी डी कुल°. ७ ए सी दक्र. ८ ए सी डी ठत्पाद. ९ ए सी शेषव. १० ए सी धीयते. डी धीयते. ११ बी क्रमध्या'. १२ सीतास्थाप'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy