SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ [ है०३.१.१३३.] पञ्चमः सर्गः । ४२५ माह । धवाश्वकर्णान्भङ्कानिलः किं तिलमाषे स्खलेत् । तदिदमत्राकूतम् । यो धवाश्वकर्णवत्सारान् ग्राहार्यादीन्भङ्का सोनिलेमहाबलो मद्दोर्दण्डस्तिलमाषर्तुच्छे त्वयि किं कदाचित्स्खलेत् ॥ ऋश्यैणानां समैरश्वैर्यद्युश्यैणं नु नङ्क्ष्यसि । याहीदानीं मा तित्तिरिकपिञ्जलमिवारेट ॥ ११४ ॥ ११४. ऋश्यैणानां भालूकानां मृगभेदानां च समैः शीघ्रत्वादिना तुल्यैरवैः कृत्वा ऋश्यैणं नु ऋश्यैणा इव यदि त्वं यसि तदेदानी - मेव याहि । यदि पश्चादपि रणे नमयसि तदा प्रथममेव नश्येत्यर्थः । तित्तिरिकपिञ्जलमिव । तित्तिरि: प्रसिद्धः । कपिञ्जलो गौरतित्तिरिः । बहुवचनसमाहारे । तदिव मारट स्वविकत्थनेन मा पूत्कुरु ॥ 1 इत्युक्तः सोग्रहच्चापं मन्वानोश्वरथं श्रितान् । द्विषो न दंशमशकं न तित्तिरिकपिञ्जलान् ।। ११५ ।। ११५. इत्येवंप्रकारेणोक्तः स लक्षश्चापमग्रहीत् । कीदृक्सन् । अश्वरथं श्रितानश्वान्रथांश्वारूढान्द्विषो दंशमशकं दंशा मशकाश्च क्षुद्रजन्तुभेदा: प्रसिद्धा असारत्वात्ततुल्यानपि न मन्वानो न मन्यमानस्तथा तित्तिरिकपिञ्जलांस्तित्तिरिकपिञ्जलतुल्यानपि न मन्वानश्च ॥ १० तरु । धवाश्वकर्णम् धवाश्वकर्णान् ॥ तृण । कुशकाशम् कुशकाशाः ॥ धान्य | तिलमाषे तिलमाषान् ॥ मृग । ऋश्यैणम् ऋश्यैणानाम् ॥ पक्षिन् । तित्तिरिकपिञ्जलम् तित्तिरिकपिञ्जलान् । अत्र "तरुतृण” [ १३३] इत्यादिना एकार्थी वा ॥ १ एरय ॥ २ बी "त्रिक". १ ए सी 'लवहा डी 'लवन्महा'. ४ बीनां भलू. ५ ए सी डी नइसि. ८ सी तुल्यो ९ बी तिरक ५४ Jain Education International २ सी 'तु त्व ६ सी 'रुते १० सी ० श्यैणा . ॥ For Private & Personal Use Only ३ बी 'चित्खले'. ७ ए सी 'रत्वोत्त'. ११ बी तिरक www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy