SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ४२४ व्याश्रयमहाकाव्ये मूलराजः अश्ववडवम् अश्ववडवौ । पूर्वापरं पूर्वापरे । अधरोत्तरम् अधरोत्तरयोः । इत्यत्र "अश्ववडव'' [१३१] इत्यादिना वैकार्थता ॥ अश्ववडवेति निर्देशादेवेतरेतरयोगे इस्वत्वं निपात्यते ॥ ___ पशु । गोमहिषेण गोमहिषौ ॥ व्यञ्जन । दधिघृतम् दधिघृते । अत्र "पशु" [१३२] इत्यादिना द्वन्द्व एकार्थो वा ॥ कुशकाशमसौ पापः कुशकाशा इमे नृपाः। सारो धवाश्वकर्ण नु त्वं मुमोचयिषन्नमुम् ।। ११२ ॥ ११२. पापोसौ ग्राहारिः । कुशकाशं कुशा दर्भाः काशा इषीकाख्यास्तृणभेदा द्वन्द्वे । कुशकाशैमिवासारः इत्यर्थः । तथेमे पाहारिसत्का नृपाः कुशकाशाः । ग्राहारिमोचनेशक्तत्वादसारा इत्यर्थः । एवं च यदि परममुं ग्राहारिं मुमोचयिषन्मोचयितुमिच्छंस्त्वमेव धवाश्वकर्णं नु। धवाश्वकर्णाख्यवृक्षभेदा इव सारो बलिष्ठः । काकुव्याख्ययोपहासगर्भवाक्यार्थत्वादयमत्र तात्पर्यार्थः । न हि ग्राहारिस्तन्नृपाश्चासमर्था आसन्परं पाहारिः सर्वेषु नृपेषु पश्यत्सु मया बद्धोतस्त्वमेकोमुं मुमोचयिषुः कियन्मात्र इति ॥ युध्यसे चेदसौ दोस्त्वां तिलमाषान्नु पेक्ष्यति । भता धवाश्वकर्णान्कि तिलमाषेनिलः स्खलेत् ॥ ११३ ॥ ११३. चेद्यदि युध्यसे त्वं तदासौ मामकीनो दोस्तिलमाषान्नु तिलमाषानिवासारत्वाल्लीलया त्वां पेक्ष्यति संचूर्णयिष्यति । दृष्टान्त १ सी शम. २ ए सी भसो पा. १ ए सी डी ते । गो. २ ए सी शनिवा'. ३ ए सी ममुग्रा. ४ सी हि गृया. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy