SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ [है० ३.१.१३०.] पञ्चमः सर्गः । ४२३ तस्मात्त्वमपि दण्डग्रहणविषयासद्धाहं मा कृथा इति । ननु त्वमपि तं स्ववंश्यं कंचन प्रकटय येन मया बद्धः शत्रुर्मोचितो मोचयिप्यते वेत्याशङ्कयाह । ब्रूमः पूर्वापरं युधि । वयं तु वं पूर्वापरमाद्यन्ते युधि रणे ब्रूमः स्वदोर्बलप्रकटनेनाधुनैव प्रकटयामः ॥ माघरोत्तरमीक्षस्व कोधरोत्तरयोस्तव । गोमहिषेणेव गोमहिषौ युध्यस्व भो मया ॥ ११० ॥ ११०. अधरोत्तरं मेक्षस्व भयाकुलतयाधरदेशमूर्ध्वदेशं च मा विलोकय । यतोधरोत्तरयोरधरो_प्रदेशयोस्तव संबन्धी कोस्ति । न न कोपीत्यर्थः । तर्हि किं कार्यमित्याह । यथा गोमहिषौ शण्डलुलायौ गोमहिषेण शण्डमहिषाभ्यां सह युध्येते तथा भो मूलराज त्वं मया सह युध्यस्व ॥ चौलुक्योथाह कोपेपि क्षरन्दधिघृतं गिरा । असौ मोच्यः कथं यस्य गावो दधिघृते सदा ॥ १११॥ १११. अथ चौलुक्यः कोपेपि क्रोधे सत्यपि महापुरुषत्वाद्राि कृत्वा दधिधृतं मधुरत्वाद्दधिसर्पिषी इव क्षरन्सन्नाह । किमित्याह । यस्य ग्राहारेः सदा गावो दधिघृते दधिघृततुल्या महापापिष्टत्वाद्धेनवो यस्य भोज्या इत्यर्थः । असौ ग्राहारिः कथं मोच्यस्त्याज्यो न कथमपीत्यर्थः ॥ १ बीपि त्वं स्व. सी °पितः स्वं वं. २ ए सी ब्रूम पू. ३ ए सी दोर्वप्र. ४ ए सी °मूर्द्धदे. ५ ए सी रोईप्र. ६ ए सी डी त्वा......६. ७ ए सी डी पिष्ठाद्धे . ८ ए सी °हारिक'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy