SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ४२२ याश्रयमहाकाव्ये [ मूलराजः] मुञ्चामुं क्रोधमानौ च लाभालाभं स्मरात्मनः । सुखदुःखौ भजेद्भावौ लाभालाभौ हि चिन्तयन् ॥१०८॥ १०८. हे राजन्नमुं ग्राहारिं क्रोधमानौ च कोपाहंकारौ च मुञ्च तथात्मनो लाभालाभं स्मर । एवं कुर्वतो मम लाभोलाभो वेति परिभावय । हि यस्माल्लाभालाभौ चिन्तयन्परिभावयन्सुखदुःखा सुखदुःखहेतू भावौ पदार्थों भजेत् । लाभार्थमलाभपरिहाराय च सुखहेत्वर्थवैदुःखहेतुमप्यर्थमङ्गीकरोतीत्यर्थः । तस्माद्राहारेर्मोचनं स्वस्य ससैन्यस्यानेकसंपत्तिहेतुत्वाल्लाभकारणममोचनं तु क्षयहेतुत्वादलाभकारणं परिभाव्य दुष्करमपि ग्राहारिमोचनं कुर्विति तात्पर्यार्थः । लाभालाभम् लाभालाभौ । अत्र “विरोधिनाम्'' [१३०] इत्यादिना द्वन्द्वो वैकार्थः ॥ विरोधिनामिति किम् । क्रोधमानौ । अद्व्याणामिति किम् । सुखदुःखौ भावौ ॥ अथाश्ववडवाविच्छेबट्वाश्ववडवं न्विमम् । तत्वे पूर्वापरे ब्रूहि ब्रूमः पूर्वापरं युधि ॥ १०९॥ १०९. अश्ववडवं नु तुरंगतुरङ्गयाविवामुं ग्राहारिं बद्धवाथ यद्यश्ववडवो तुरगतुरङ्गयौ । उपलक्षणत्वाद्धस्तिरत्नवर्णादिदण्डं चेच्छेाञ्छसि तत्तदा स्खे आत्मीये पूर्वापरे आद्यन्ते पूर्वजान भ्रातृपुत्रपौत्रादि पाश्चात्यं स्वसंतानं च कथय त्वद्वंशे यो ग्राहारेर्दण्डं जग्राह यो ग्रहीप्यति च तौ प्रकटयेत्यर्थः । इदमुक्तं भवति । मयि सति तव वंशे स कोपि नाभून भविष्यति च यो ग्राहारेर्दण्डं गृहीतवान् ग्रहीष्यति वा । १ सी वौ पादा. २ सी हाय. ३ बी °वदुख. ४ डी वाल्लोभ. ५ सी रङ्गतु. ६ बी दि पश्चा. ७ डी वंशो यो'. ८ ए सी योहा. ९एन् गृही. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy