SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ [ है० ३.१.१२९.] पञ्चमः सर्गः । ४२१ तत्सितम् सितानि । इत्यत्र "क्कीबम्" [१२८]: इत्यादिना क्लीबं शिष्यते तच्चैकमेकार्थं वा ॥ मूल पुष्यपुनर्वस्वोश्चन्द्रस्तेद्योद्रणे मयि । यन्मे ग्राहारेश्च तिष्यपुनर्वस्वोर्नु नान्तरम् ॥ १०७ ॥ १०७. हे मूल मूलराज "ते लुग्वा" [३.२.१०८] इत्युत्तरपदलोपः । अनेन च संबोधनेनास्य मूलनक्षत्रजातत्वमुक्तम् । मूलजातानामेव हि प्रायेण नामादौ मूलशब्दः स्यात् । मय्युद्रणे रणायोद्यतेद्य ते तव चन्द्रो वर्तते । क्व । पुष्यपुनर्वस्वोः । अत्र पुनर्वस्वन्त्यैकपादे पुनर्वसुशब्दः । पुष्यश्च पुनर्वसू च पुष्यपुनर्वसू तयोः । उपश्लेषसप्तमीयम् । पुष्यपुनर्वसुभ्यां संयुक्त इत्यर्थः । अष्टमश्चन्द्र इत्यर्थः । मूलपूर्वाषाढोत्तराषाढापाद एको धनुरिति वचनान्मूलजातस्य राज्ञो धनू राशिः । पुनर्वसुपाद ऐकः पुष्याश्लेषाश्च कर्क इत्युक्तेः पुनर्वस्वन्त्यैकपादपुष्याश्लेषायुक्तश्चन्द्रः कर्कराशिस्थो धनूराशेश्च कर्कोष्टम इति तत्स्थश्चन्द्रोप्यष्टमः । अष्टमे प्राणसंदेह इत्युक्तेश्च तवाद्य प्राणसंदेह इति तात्पर्यम् । स्वस्योद्रणत्वे हेतुमाह । यदित्यादि । यद्येस्माद्धेतोर्मे ग्राहारेश्च नान्तरं न विशेषो मिथोन्तरङ्गमैत्र्यावयोरेक एवात्मेत्यर्थः । अत्रैव शब्दश्लेषोपमामाह । तिष्यपुनर्वस्वोर्नु यथा पुष्यपुनर्वसुनक्षत्रयोर्व्यवधायकान्यनक्षत्राभावेनान्तरं व्यवधानं न स्यात् ।। पुष्यपुनर्वखोः । तिष्यपुनर्वस्त्रोः । इत्यत्र "पुष्या" [१२९] इत्यादिना पुनवसुंधर्थ एकार्थः स्यात् ॥ १ ए सी डी स्वोच्चन्द्र १एसी सू च पुष्यपुनर्वसू त'. २ बीर्थः । मू. ३ ए सी डी एकपु. ४ सी श्च कार्को. ५सी चममाद्धे'. ६ ए सी षो मियोन्तरं न विशेषो मि. ७बी सुद्ध्यर्थ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy