SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ [ है० १.३.६. ] प्रथमः सर्गः । ३५ इत्यत्र ‘“रः कखे?” [५] इत्यादिनापौ वा ॥ पक्षे । प्रीतः कलिः । कलिः खिन्नः । धर्मः प्रीतः । खिन्नः फलितः ॥ स्वयंभूःश्रीपतिः शंभुस्सूर्य: सोमष्षडाननः । नृपैः षट्चक्रभृत्तुल्यैरस्यान्तस्स्थापिताः सुराः || ४६ || ४६. नृपैर्वनराजादिभिर्महाधार्मिकत्वादस्य पुरस्यान्तर्मध्ये धर्मार्थकारितनव्यप्रासादेषु स्वयंभूर्भगवान् ब्रह्मा च । श्रीपतिर्विष्णुः । शंभुरः । सोमचन्द्रः । सूर्यो रविः । षडाननः स्कन्दश्च । एते सुरा देवाः स्थापिताः । किंभूतैः । षण्णां चक्रभृतां मांधातृ ( १ ) धुन्धुमार (२) हरिचन्द्र (३) पुरूरवो (४) भरत ( ५ ) कार्तवीर्या (६) ख्यानां समाहारः षट्चक्रभृत् । बलसैन्यादिना तेन तुल्यैः ॥ स्वयंभू श्रीपतिः । सोमध्षडाननः । शंभुस्सूर्यः । अन्तस्स्थापिताः । इत्यत्र “शषसे शषसं वा” [६] इति वा शषसाः ॥ पक्षे । श्रीपतिः शंभुः । नृपैः षट् । सूर्यः सोमः ॥ निस्तन्द्रैश्चञ्चलैश्छेकैष्टीकमानैष्टकारिभिः । तैस्तैस्थ रिहा श्वानां रसति व्यथितेव भूः ॥ ४७ ॥ I | ४७. इह पुरेश्वानां तैस्तैः । अनेकैरित्यर्थः । थद्वैः समूहैः कृत्वा भू रसति शब्दायते । कीदृशैः । निस्तन्द्रैर्निरालस्यैस्तेजस्विभिरित्यर्थः । चश्चलैर्जात्यहयस्वभावेन चपलैः । छेकैः सुशिक्षितत्वेन गतिपञ्चककरणदक्षैरत एव टीकमानैर्बाह्यालिकादौ वल्गद्भिरत एव च ठकाराकारखुरैर्भूम्या हननेर्न ठं ठकारं भूपृष्ठे कुर्वन्तीत्येवंशीला ये तैष्टकारिभिः । उत्प्रेक्ष्यते । व्यथितेव पीडितेव । अन्योपि हि व्यथावान् रटति । भुवश्च १ एफ् खपफ ३ २ सी 'रिनव्याप्रा ३ डी 'भृतानां मां. ४ बी एफ् 'कैस्थ: ५ ए सी र्थः । स्थद्वैः ६ सी डी न ट ७ सी डी त्प्रेक्षते. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy