SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ३४ व्याश्रयमहाकाव्ये [ मूलराजः ] 3 यिनां द्विजानाम् । वषट्पट्शब्दाकव्यये मन्त्राक्षरे इन्द्राहुतौ वर्तेते । शान्तिकर्मार्थाग्निकारिकादिविधानकाले वषट्‌श्रौषरूंपा वाकू वाणी सुधामिव सुधां योति स्रवति । मार्याद्युपद्रवोच्छेदकत्वेनात्याह्लादकत्वात् । एतेनास्य पुरस्य निरुपद्रवत्वमुक्तम् । तथा श्रियं लक्ष्मीदेवीमिह पुर आगतां पश्यन् सन्नप्सु जलेषु शेत इत्येवंशीलो छायी स चासौ देवश्चाच्छायिदेवोन्धिशयनः श्रीपतिर्नापशायी नाब्धिशयनः संभाव्यते । प्रस्तावादत्र संभाव्यत इत्यध्याहार्यम् । श्रियोत्रागमनात्समुद्रेतद्वियोगे निद्राया अभावाच्छ्रीपतिरप्यत्रागत इति संभाव्यत इत्यर्थः ॥ वाक्ळूरान् अवाकिराः । तच्छ्रुतम् यच्श्वेतम् । वपट्टीपट् श्रौषट् शान्ति। अच्छायि अशायी । इत्यत्र “प्रथमाद् " [ ४ ] इत्यादिना वा छः ॥ प्रथमादिति किम् । पश्यञ् श्रियम् ॥ अधुटीति किम् । वाक् योतति ॥ अस्यान्तङ्कृतिभिङ्कल्यैङ्खजैत्रै फलदै परम् । धर्मः प्रीतः कलिः खिन्नः फलितः सन्मनोरथः ॥ ४५ ॥ ४५. अस्य पुरस्यान्तर्मध्ये कल्यैर्दानशीलतपःस्वाध्यायादिभिर्धर्मक्रियाभिः कृत्वा परमतिशयेन धर्मः प्रीतः प्रहृष्टः । विजृम्भित इत्यर्थः । अत एव कलिः पापयुगं खिन्नः संतप्तः । अत एव च सन्मनोरथः सतां साधूनों मनोवाञ्छा फलितः सिद्धः । किंभूतैः सद्भिः । खजैत्रैर्जेतार एव प्रज्ञाद्यणि [७.२.१६४.] जैत्राः । खानामिन्द्रियाणां जैत्रा वशीकारिणस्तैः । अत एव पुण्यहेतुत्वेन कृतं पुण्यमस्त्येषु तैः कृतिभिः । अत एव फलं स्वर्गापवर्गादिकं ददति ये तैः फलदैः ॥ कृतिभिङ्कुल्यैः । अन्तङ्कृतिभिः । कल्यै जैत्रैः । फलदै परम् । खजैत्रैफलदैः । 1 • १ एफ् नांव. २बी रूपवा ३ सी डी एफ् 'ति श्रव ४ सीनां वा ं. ५ एफ जैत्रा व ६ डी दैः । अन्त ७ डी म् । इत्य. Jain Education International • For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy