SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [मूलराजः] ग्राहारियुववलिनोभूद्भालवलिभिः क्रुधा । भोज्यतिक्तं न भुञ्जानस्तुल्यसारे दृशौ दधत् ॥ ९४ ॥ ९४. ग्राहौरि: क्रुधा ये भालवलयो ललाटरेखास्तैः कृत्वा युवैवलिनो युवा सन्वलियुक्तो वृद्धोभूत् । कीदृक् । साने क्रुधाश्रुयुते तुल्ये च ते साने च तुल्यसा दृशौ दधत् । भोज्यतिक्तं भुञ्जानो नु तिक्तं कटु तीक्ष्णरसमपि कटुत्वात्तिक्तशब्देनोच्यते । भोज्यं च तत्तिक्तं च भोज्यतिक्तं तीक्ष्णं त्रिकटुकादि तद्भुञ्जान इव । त्रिकटुकादि भुञ्जानस्याक्षिणी सारे भवतः ॥ दोभ्या सदृशपीनाभ्यां भोज्यमन्नं नु लीलया। स गृहीत्वायसौ शङ्ख तुल्यौ साविवाक्षिपत् ॥९५ ॥ ९५. स ग्राहारिरायसौ लोहमयौ शङ्क शर्वले मूलराजाभिमुखमक्षिपत् । किं कृत्वा । सदृशपीनाभ्यां तुल्यपीवराभ्यां दोभ्यां कृत्वा भोज्यमन्नं नु कवलमिव लीलयातिबलिष्ठत्वादनायासेन गृहीत्वा । किंभूतौ । तुल्यौ मिथः सदृशौ साविव कृष्णत्वाद्भीष्मत्वाच्च भुजङ्गाविव ॥ युवखलतिः । थुवपलितः । युवजरन् । युववलिनः । इत्यत्र "युवाखलति" [११३] इत्यादिना कर्मधारयः ॥ भोज्यतिक्तम् । तुल्यसास्ने । सदृशपीनाभ्याम् । इत्यत्र "कृत्य" [११४] इत्यादिना कर्मधारयः ॥ अजात्येति किम् । भोज्यमन्नम् । तुल्यौ सौ ॥ १ ए सी हारि क्रु. २ए सी डी रेवास्तैः. ३ बी वबलि'. ४ ए सी क्तं न भु. डी क्तं नु भु. ५ सी भवेत् ॥. ६ सी लोमहयौ. ७ सी खलितः । युवजववलि. ८ ए सी युवज'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy