________________
४१३
[है० ३.१.११२.] पञ्चमः सर्गः । ४१३
गदामतल्लिका सोथ दैत्यतल्लजकोमुचत् । ।
भ्रष्टाश्वगर्भिणीगर्भ गर्जन् गूर्जरभूपतौ ॥ ९२ ॥ ९२. अथ स दैत्यतल्लजको दानवश्रेष्ठो ग्राहारिर्गदामतल्लिका श्रेष्ठं गदाख्यमायुधभेदं गूर्जरभूपतांवमुचदक्षिपत् । कीहक्सन् । अश्वाश्च ता गर्भिण्यश्चाश्वगर्भिण्यो भ्रष्टाः साध्वसातिरेकादधःपतिता अश्वगर्भिणीनां गर्भा यत्र तद्यथा स्यादेवं गर्जन्महासिंहनादं मुञ्चन् । स्वभावान्मतल्लिकादयः प्रशंसायां रूढा आविष्टलिङ्गाश्च ॥
इभ्यपोटा । इभ्ययुवति । गजस्तोकैः । हयकतिपयैः । गोगृष्टि । गोधेनु । गोवैशाः । गोहत् । गोबष्कयिणी । औत्सप्रवक्तृवत् । कठश्रोत्रिय । कालापाध्यायक । कठधूर्तः । गदामतल्लिकाम् । दैत्यतल्लजकः । इत्यत्र "पोटायुवति" [१४] इत्यादिना कर्मधारयः ॥ अश्वगर्भिणी । इत्यत्र "चतुष्पाद्गर्भिण्या" [११२] इति कर्मधारयः ॥
शिरस्काधुवखलतिर्बुद्धेर्युवजरन्नथ ।
स्मितायुवपलितस्तां शक्त्या चिच्छेद राजिंभूः॥ ९३ ।। ९३. अथ राजिंभूर्मूलराजस्तां गदां शक्त्यास्त्रभेदेन चिच्छेद । कीहक्सन् । शिरस्काच्छिरस्त्राणायुवखलतिस्तरुणः सन्खल्वाटस्तथा बुद्धेर्युवजरंस्तरुणः सन्वृद्धस्तथा स्मिताद्दाक्षेपोत्थहासाावपलितस्तरुणः सन्सितकचः ॥
१ सी स्कायव. २ डी तिर्युद्धे युव. ३ डी जिसू:.
१ ए सी रिगदा. २ ए सी ताचद. डी तावुद. ३ ए सी अभ्य'. . ४ ए सी डी °वशा । गो. ५ ए सी यकः । क. ६ बी तुष्फाग. ७ डी जिसूर्मू. ८ ए सी स्तरण:. ९ डी थायुन्व. १० ए सी बुदेर्यु. ११ ए सीरुण सौ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org