SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ [है० ३.१.११५.] पञ्चमः सर्गः । ४१५ तौ चौलुक्यः कुमारप्रव्रजिताशापदुःसहैः॥ कुमारश्रमणाशीलतीक्ष्णैर्वाणैः स्म कृन्तति ॥ ९६ ॥ ९६. चौलुक्यो मूलराजस्तौ शङ्क बाणैः कृन्तति स्माच्छिनत् । किंभूतैः । कुमारश्रमणाशीलतीक्ष्णैरपरिणीतभिक्षुकीव्रतवन्निशितैः । कुमारश्रमणाया ह्याजन्मब्रह्मचारिणीत्वेन सर्वदाप्यक्षतत्वाच्छीलमत्यन्तं तीक्ष्णं स्यात् । अत एव कुमारप्रव्रजिताशापदुःसहैः कुमारप्रव्रजिताक्रोशवदेसद्यैः । कुमारप्रव्रजिताया ह्याबालकालागतस्थत्वेन महाप्रभावत्वाच्छापोतिदुःसहः स्यात् ॥ कुमारश्रमणा । कुमारप्रव्रजिता । इत्यत्र "कुमारः" [११५] इत्यादिना कर्मधारयः ॥ मयूरव्यंसकच्छात्रव्यंसको नु धियाय तौ। पतद्भी रेजतुः प्लक्षन्यग्रोधाविव पत्रिभिः ॥ ९७ ॥ ९७. अथ तौ नृपौ पतद्भिः पत्रिभिः शरैः कृत्वा रेजतुर्यथा पक्षन्यग्रोधौ पतद्भिः पत्रिभिः पक्षिभी राजतः । प्लक्षो वृक्षभेदः । किंभूतौ तौ । धिया कृत्वा मयूरव्यंसकच्छात्रव्यंसकौ नु बाह्यविकारादर्शनेन रम्याकारदेहनेपथ्यत्वान्मयूर इव मयूरः । व्यंसयति छलयति चेतसा व्यंसकः । एवं विनयादिदर्शनेनच्छात्र इवच्छात्रः । व्यंसकः पूर्ववत् । कर्मधारयगर्भे द्वन्द्वे । ताविव । अन्योन्यं पराभवार्थमत्यन्तं छलकबुद्धी इत्यर्थः ॥ १ ए सी कृतन्तस्मा. २ सी श्रणा'. ३ ए सी दशौः । ४ ए सी सह स्या. ५ ए सी त्रिभि प. ६ सीतौ धि° ७ सी ति चे. ८ ए सी ने तच्छा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy