SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ मूलराज : ] कृताकृत । इत्यत्र "क्तं” [१०५] इत्यादिना कर्मधारयः ॥ इटः कावयवत्वाद्विकारस्य चैकदेशविकृतानन्यत्वान्न भेदकत्वम् । तेन क्लिष्टाक्किशित । छाताच्छिताः ॥ आदिग्रहणात् पीतावपीत ॥ ४१० चक्रे क्लिशितमक्लिष्टं पुनः परमविह्वलम् । उत्तमास्त्रैर्महेभस्थः सन्नृपः स द्विषां बलम् ॥ ८६ ॥ ८६. सन्नृपः श्रेष्ठभूपः स मूलराजो महेभस्थः सन् द्विषां बलं सैन्यमक्किष्टं पूर्वमपीडितं सदुत्तमात्रैर्दिव्यप्रभावादिनोत्कृष्टैः प्रहरणैः कृत्वा पुनर्भूयोपि क्लिशितं पीडितं चक्रे । कीदृशम् । परमविह्वलं भयेनातिकातरम् ॥ * उत्कृष्टास्त्राण्यथो वर्षन्दैत्यवृन्दारकः कुधा । पुन्नागैराकृतं राजकुञ्जरं प्रत्यधावत ॥ ८७ ॥ ८७. अथो दैत्यवृन्दारको दानवश्रेष्ठो प्राहारिरुत्कृष्टास्त्राणि वर्षन्मुञ्चन्सन् राजकुञ्जरं नृपश्रेष्ठं मूलराजं प्रति क्रुधाधावत । कीदृशम् । पुमांसो नागा इव गजा इव तैः पुन्नागैर्नरश्रेष्ठैरावृतम् ॥ क्किशितमक्किष्टम् । इत्यत्र " सेनानिटा ” [१०६ ] इति न कर्मधारयः ॥ सन्नृपः । महेभ । परमविह्वलैम् । उत्तमात्रैः । उत्कृष्टास्त्राणि । इत्यत्र “सन्महत्" [ १०७ ] इत्यादिना कर्मधारयः ॥ दैत्यवृन्दारकः । पुन्नागैः । राजकुञ्जरम् । इत्यत्र " वृन्दारक" [१०८ ] इत्यादिना कर्मधारयः ॥ १ ए पीत्याव २ सी 'शित पी ३ बी अथ दै० ४ सी 'हल उ. ५ बी न्दारिक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy