SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ [है० ३.१.११०. पञ्चमः सर्गः। ४११ कतरकठः कतमौत्सस्ते ज्ञातोमि किनृप । इत्याक्षिपन्तावन्योन्यमयुध्येतामुभौ नृपौ ॥ ८८॥ ८८. उभौ नृपावन्योन्यमयुध्येताम् । किंभूतौ सन्तौ । अन्योन्यमाक्षिपन्तौ तर्जयन्तौ । कथमित्याह । हे किंनृप कुत्सितभूप कतरकठः कर्तमौत्सश्च द्वयोः कठयोर्मध्ये को नाम कठः कठप्रोक्तवेदाध्यायी द्विजभेदो बहूनामुत्सानां मध्ये को नामौत्सश्चोत्सस्यापत्यं मुनिभेदश्च । भीरुत्वादिधमैरस्म्यहं ते त्वया ज्ञातो ज्ञायमानोस्मि । "ज्ञानेच्छा" [५.२.९२] इत्यादिनासति तोत एवं त इत्यत्र कर्तरि षष्ठी । "क्तयोरसदाधारे" [२.२.९१] इत्यत्र कर्तृषष्ट्या अनिषिद्धत्वादिति ॥ कतरकठः । कतमौत्सः । इत्यत्र “कतर" [१०९] इत्यादिना कर्मधारयः॥ किंनृप । इत्यत्र “ कि क्षेपे" [११०] इति कर्मधारयः ॥ इभ्यपोटेभ्ययुवतिवत्तस्थुर्दूरतस्तयोः । हता हयकतिपयैर्गजस्तोकैश्च भूभुजः ॥ ८९ ॥ ८९. हया ये कतिपयास्तैर्ह यकतिपयैरल्पाश्वैर्गजस्तोकैश्चाल्पगजैश्च वृता भूभुजस्तदा रणकर्मानुपयोगित्वात्तयोर्दूरतस्तस्थुः । इभ्यपोटेभ्ययुवतिवदिभ्या हस्तिन्यः स्त्रीजातिभेदः । कामशास्त्रे हि पीनस्तनत्वसूक्ष्माक्षत्वादिहस्तिनीधर्मोपेता स्त्री हस्तिनीत्युच्यते । पुरुषवेषधारिण्यः स्त्रिय: पोटाः । गर्भ एव दास्यं प्राप्ता वोभयव्यञ्जना वा भुजिध्यदास्यो वा । तथेभ्या हस्तिन्यः स्त्रीजातिभेद: करेणव एव वा । १ सी स्मि कं न. २ ए नृपः ।. १ डी स्तदा ।. १एसी ध्येताः किं. २ बी तमोत्स. २ ए सी कण्ठयो'. ४ ए सी नासौत्स. ५ सी °व म इ. ६ ए सी डी कयै. ७ ए सी श्वैगज. ८ ए सी भेदा का.बी भेदाः का. ९ ए सी माकृत्या. १० बी पेतां स्त्री. ११ सी प्रावाम. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy