________________
४०२
व्याश्रयमहाकाव्ये [मूलराजः] दैत्यानां पूजितो जज्ञे रक्षसामर्चितस्तदा । विक्रमस्यासितः सोरिकीर्तेः शौक्लयं कदर्थयन् ।।७१॥ ७१. दैत्यानां पूजितः स ग्राहारिस्तदा युद्धकाले मांसासृक्सुभिक्षकरणाद्रक्षसामर्चितो जज्ञे । कीडक्सन् । विक्रमस्य । आस्यते स्मात्रेति "अद्यर्थाञ्चाधारे" [५.१.१२] इति क्ते आसितः स्थानम् । अत एवारिकीर्तेः शौक्ल्यं श्वेततां कदर्थयन्पराभूयोत्प्लवमानः ।।
हस्तलाघवतोस्येषुरूपं नालक्षि कैरपि । रणशौण्डस्याक्षधृर्तस्येव कैतवपाशकः ॥७२॥ ७२. रणे पँसक्तः शौण्ड इव रणशौण्डस्तस्यास्य ग्राहारेर्हस्तलाघवतो हस्तदाक्ष्यादिषुरूपं शराकारः कीदृगयं शर इति कैरपि नालक्षि न ज्ञातं यथाक्षेषु पाशकेषु धूर्तो वञ्चकोक्षधूर्तस्तस्य प्रवीणद्यूतकारस्य हस्तलाघवतः कैतवाय दम्भाय पाशको देवनः कैतवपाशंकः कूटपाशकः कैरपि न लक्ष्यते कूटोयं पाशक इति न ज्ञायते ॥
तृप्तीथ । मांसस्य तृप्तान् । अलस्य सुहितान् ॥ पूरण । लङ्कापतेर्द्वितीयः ॥ अव्यय । राज्ञां साक्षात् ॥ अतृश् । हरेषिन् ॥ शतृ । त्रस्तानां विब्रुवन् ॥ आनश । विक्रान्तानां स्तुवानः । अत्र "तृप्तार्थ." [८५] इत्यादिना न तत्पुरुषः॥
राज्ञां ज्ञातान् । सतां बुद्धान् । यमस्येष्टः । कलेर्मतः । रक्षसामर्चितः । दैत्यानां पूजितः। विक्रमस्यासितः । इत्यत्र "ज्ञानेच्छा" [८६] इत्यादिना न समासः ॥
१ बी मांसांसू. २ डी तेस्मिन्निति. ३ बी त्योपप्लव'. ४ बी प्रशक्तः. ५ ए सी क्ष्यातिहिपु. ६ ए सी न: केत'. ७ ए सी शक कू. ८ ए सी-डी पि ल'. ९ ए कूटायं. सी कूटाय पा. १० ए तार्थः । मां. बीतार्थम् । मा. ११ बी तृशू । ह'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org