SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ [ है० ३.१.९०.] पञ्चमः सर्गः। ४०३ कीर्तेः शौक्यम् । इत्यत्र "अस्वस्थगुणैः" [८७] इति न तत्पुरुषः ॥ अत्र च शुक्लादेर्गुणस्य शुक्लारिकीर्तिरित्यादौ द्रव्येपि वृत्तिदर्शनादस्वास्थ्यमस्त्येव । गुणशब्देन चेह लोकप्रसिद्धा रूपरसगन्धस्पर्शा गुणा अभिप्रेतास्ततस्तद्विशेषैरेवायं प्रतिषेधस्तेन हस्तलाघवत इत्यत्र प्रतिषेधो न स्यात् ॥ अस्वस्थगुणैरिति किम् । इषुरूपम् ॥ रणशौण्डस्य । अक्षधूर्तस्य । इत्यत्र "सप्तमी" [८८] इत्यादिना तत्पुरुषः॥ रणसिंहेन तेनाजिव्याघ्रा अपि कृताः परे । तीर्थकाकास्तीर्थबकाः प्रहारैर्युधि विहेलाः ॥ ७३ ॥ ७३. रणे सिंह इवातिशूरत्वाद्रणसिंहस्तेन तेन ग्राहारिणा परे शत्रव आजिव्याघ्रा अपि शूरत्वाद्रेणव्याघ्रतुल्या अपि प्रहारैविह्वला विधुराः सन्तः कृताः । कीदृशाः । युधि तीर्थकाकास्तीर्थे काका इव तीर्थबकास्तीर्थे बका इव यथा तीर्थे काका बकाश्चानवस्थिताः स्युरेवं रणे क्षणदृष्टनष्टाः कृता इत्यर्थः ॥ रणसिंहेन । आजिव्याघ्राः । इत्यत्र "सिंहाथैः पूजायाम्" [८९] इति तत्पुरुषः ॥ तीर्थकाकाः । तीर्थबकाः । इत्यत्र “काकाद्यैः क्षेपे" [२०] इति तत्पुरुषः ॥ काकाद्यैरिति किम् । युधि विह्वलाः ॥ ते पात्रेसमिताः पात्रेबहुलाश्चाभवन्परे । यद्भस्मनिहुतं तत्रप्रहृतं तैरजायत ॥ ७४ ॥ ७४. ते पूर्वश्लोकोक्ताः परे पात्रेसमिता: पात्रे भोजनवेलायामेव १ सी कास्ती. २ सी हला......विधु'. ३ सी निहुन्तं. १ ए सी कीर्ते शौ. २ बी स्वच्छगु . ३ सी डी लादिकी. ४ ए सी न लो चे. ५ बी द्रणे व्या . ६ सी °धि का. ७बी तीथे. ८ ए सी डी इति का. ९ सी बला ॥ ते'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy