SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ [है० ३.१.८४.] पञ्चमः सर्गः । ४०१ मित्यादि शिक्षणं दुष्करमभूत् । यथा गोपैरगोधुग्भिः कर्तृभिर्गवां कर्मणां दोहो दोहाज्ञत्वेन दुष्करः स्यात् । यद्वा । यथागोपैरभूपै राजगुणविकलैर्गवां भुवां दोहो रत्नादिक्षारणं दुष्करः स्यात् ।। गवां दोह इवागोपैः । इत्यत्र "तृतीयायाम्" [४] इति कर्मजा षष्ठी न समस्यते ॥ तृतीयायामिति किम् । दुष्करं राज्ञां भृत्यानुशासनम् ॥ कर्तरि षष्ठ्यामपि न समास इति कश्चित् । तस्य युधः कृतौ ॥ मांसस्य तृप्तान्सोस्रस्य सुहितान् राक्षसान्व्यधात् । लङ्कापतेर्द्वितीयो नु राज्ञां साक्षाद्धरेपिन् ॥ ६९ ॥ ६९. हरेषिन्दैत्यत्वादिन्द्रस्य शत्रुः स ग्राहारी राज्ञां साक्षात्समक्षं राक्षसान्व्यधात् । किंभूतान् । अनेकारिवधेन मांसस्य तृप्तानोबाणानस्य रक्तस्य च सुहितान् । अतश्च राक्षसानां तृप्त्यापादनलक्षणतुल्यकार्यविधानालङ्कापते रावणस्य द्वितीयो ने द्वितीय इव रावण इत्यर्थः ॥ विक्रान्तानां स्तुवानोसौ त्रस्तानां विब्रुवन्नहन् । राज्ञां ज्ञातान्सतां बुद्धान्यमस्येष्टः कलेर्मतः ॥ ७० ॥ ७०. असौ ग्राहारिर्भटानहन् । कीहक्सन् । विक्रान्तानां शूराणां स्तुवानस्तथा त्रस्तानाम् । पूर्वबान च संबन्धे षष्ठी। विब्रुवन्निन्दन् । तथानेकारीणां वधकत्वेन यमस्य मृत्योरिष्टः । कले रणस्य मतः संमतः । यद्वा । पापिष्ठत्वात्कलेः कलिकालस्य मतः । कीदृशान् । राज्ञां ज्ञाताञ् शौर्यादिगुणैः प्रसिद्धान् । तथा सतां शिष्टानां बुद्धान् न्याययोधित्वादिशिष्टोचितक्षात्रधर्मैः प्रसिद्धान् ।। १ सी क्षण दु. २ ए सी नाभ्रणा'. ३ ए सी सर. ४ ए सी तृप्तापा. ५ डी नुर्द्विती. ६ ए सी मत सं. . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy