SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ४०० ढ्याश्रयमहाकाव्ये [मूलराजः] यावन्तं कालं न कोपि हन्ति तावन्तं कालमित्यर्थः । परान्नन् । तथारीभानां शत्रुहस्तिनां दन्तानां लेखको दन्तलेखको दन्तविलेखनाजीवः स इव यथा दन्तलेखको दन्तकर्म कुर्वन्दन्तान्भिनत्ति तथारिगजदन्तान्भिन्दंश्च ॥ सर्वपश्चात् । सर्वचिरम् । इत्येतौ "सर्व" [८०] इत्यादिना साधू ॥ चूतभञ्जिकाम् । दन्तलेखकः । इत्यत्र "अकेन" [८१] इत्यादिना तत्पुरुषः ॥ गजानामासिका कुम्भेष्वस्त्राणां क्षेपकोतनोत् । क्रुद्धः मुराष्ट्रभूभर्ता पुरां भेत्तेव दुस्सहः ॥ ६७॥ ६७. सुराष्ट्रभूभर्ता ग्राहारिगजानां कर्तृणामासिकामवस्थानमतनोचक्रे । तीव्रप्रहारैगजान् रणेपातयदित्यर्थः । कीहक्सन् । पुरां भेत्तेव तिसृणां दानवपुरीणां कर्मणां विदारको रुद्रः स इव क्रुद्धः सन् दुस्सहो दुर्धर्षात एव कुम्भेषु कुम्भस्थलेष्वस्त्राणां कर्मणां क्षेपकः॥ गजानामासिकाम् । इत्यत्र “न कर्तरि" [८२] इति न तत्पुरुषः ॥ अस्त्राणां क्षेपकः । पुरा भेत्ता । इत्यत्र “कर्मजा तृचा च" [८३] इति न तत्पुरुषः ॥ कथं भूभर्ता । भर्तृशब्दो यः पतिपर्यायस्तेन संबन्धषष्ठया याजकादिपाठात्कर्मषष्ट्या वायं समासः ॥ गवां दोह इवागोपै राज्ञां भृत्यानुशासनम् । नश्यतां दुष्करमभूत्तस्योग्रायां युधः कृतौ ॥ ६८॥ ६८. उग्रायां तस्य ग्राहारेः कर्तुयुधः कर्मणः कृतौ करणे सत्यां नश्यतां राज्ञां कर्तृणां भृत्यानुशासनं प्रेष्याणां कर्मणां भो मा पलॉयिध्व १ सी गवा दो'. १ डीन्तवि. २ डी 'पु स्थ'. ३ सी पुरा भै'. ४ सी 'ब्दो xx पटिप. ५ बी डी लायध्व. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy