SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३९० व्याश्रयमहाकाव्ये [मूलराज: ] अहितान् । इत्यत्र “नञ्” [ ५१] इति तत्पुरुषः ॥ निवृत्यमानताश्चो त्तरपदार्थः । पर्युदासे नन्समासार्थः । प्रसज्यप्रतिषेधे तु नन्पदान्तरेण संबध्यत इत्युत्तरपदं वाक्यवत्स्वार्थ एव प्रवर्तते तत्रासामर्थ्येपि यथाभिधानं बाहुलासमासः । असूर्यपश्यान् । अपुनर्गेय । अश्राद्ध भोजी । अलवणभोजी । अकार्णवेष्टकिकान् । अवत्सीयान् । अवध्य | असांतापिकः ॥ पूर्वकाये पर काये धरकायोत्तराङ्गयोः । स्वान्क्षुण्णान्वीक्ष्य सायाह्नानिवद्राहारिरज्वलत् ॥ ५० ॥ ५०. सायाह्ने संध्यायां योग्निस्तद्वद्वाहारिरज्वलत्कोपाज्जाज्वल्यमानोभूत् । किं कृत्वा । स्वानात्मीयान्भटाञ् ज्ञातीन्वा वीक्ष्य । किंभूतान् । कायस्य पूर्वभागे हृदयादौ कायस्यापरभाग ऊर्वाद कायस्याधरभागे पादादावङ्गस्योत्तरभागे मूर्धादौ क्षुण्णान्प्रहृतान् ॥ मध्याह्नार्कनिभैः सोर्घदृष्टयैक्षिष्ट द्विषां बलम् । दृष्ट्यर्धेन च बाहू स्वौ दंष्ट्रिका परामृशन् ॥ ५१ ॥ ५१. स ग्राहारिर्मध्याह्नार्कनिभः कोपाटोपाचिभिः प्रहरद्वयसत्करविवज्जाज्वल्यमानः सन्नर्धदृष्ट्या बलावलेपादवज्ञया नेत्रार्धभागेन द्विषां बलं सैन्यमैक्षिष्ट । तथा दंष्ट्रिका परामृशन्स्व पौरु पावलेपोत्कर्षाद्दाढिकाकेशार्धभागं पाणिना गृह्णन्सन् पौरुपमदेन वक्रीकृताक्षत्वादृनवौ बाहू चैक्षिष्ट ॥ पूर्वकाये | अपरकाये | अधरकाय । उत्तराङ्गयोः । इत्यत्र “पूर्वा " [ ५२] इत्यादिना तत्पुरुषः ॥ १ ए सी न्वीक्ष सा १ एसी दृष्ट Jain Education International २ सी 'भः सौ. २ ए सी अभ For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy