________________
[ है० ३.१६.५४.] पञ्चमः सर्गः ।
३९१ सायाह्नमध्याह्नौ “सायाह्नादयः" [५३] इति साधू ॥ अर्धदृष्टया । दृष्टयर्धेन । इत्यत्र “समेंशेधैं न वा" [५४] इति वा तत्पुरुषः ॥ समेंश इति किम् । दंष्ट्रिकार्धम् ॥
धिगधजरतीयं वः प्राग्जरत्यर्धहासिनाम् । भग्ना द्वितीयसेना नो यत्तृतीयारिसेनया ॥ ५२ ॥ भूद्वितीयं श्रीतृतीयं तुर्यकुप्यं मुधैव वः ।
प्रदत्तं माषतुर्याल्पा इत्युक्त्वा सोग्रहीद्धनुः ॥ ५३॥ ५२,५३. स ग्राहारिर्धनुरग्रहीत् । किं कृत्वा । उक्त्वा । किमित्याह । हे माषस्य मदनधान्यस्य तुर्यश्चतुर्थो भागस्तद्वदल्पास्तुच्छा अल्पसत्त्वाः प्राक्पूर्व जरत्या अर्ध जरत्यर्ध किंचिद्यौवनं किंचिद्वार्धक्यम्। अनेन च शुभाशुभरूपमर्धनिष्पन्न कार्य व्यज्यते । तद्धासिनां महाशूरंमन्यतयान्यदीयजयाजयरूपार्धनिष्पन्नकार्योपहासिनां वो युष्माकमधु जरत्या अर्धजरती किंचिद्यौवनं किंचिद्वार्धक्यं तस्यास्तुल्यं "काकतालीयादयः" [७.१.११७] इतीये अर्धजरतीयं जयाजयरूपमर्धनिष्पन्नं कार्य धिग्गामहे । यद्यस्माद्धेतोर्नोस्माकं द्वितीयसेना सेनाया द्वितीयो भागस्तृतीयारिसेनया शत्रुसेनायास्तृतीयेन भागेन भग्ना नाशिता तथात एव वो युष्मभ्यं भूद्वितीयं भूमेद्वितीयो भागः श्रीतृतीयं लेक्ष्म्यास्तृतीयो भागस्तुर्यकुप्यं कुप्यस्य हेमरूप्याभ्यामन्यस्य ताम्रादेश्चतुर्थों भागो मुधैव निरर्थकमेव प्रदत्तमिति ॥
१बी द्वार्धिक्य . २ डी रूपं द्वयम'. ३ ए सी य विज्य. ४ ए भूदिती सी भूढ़ि'. ५ ए लक्ष्मातृ. सी लक्ष्मीतृ. डी लक्ष्मास्त.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org