SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ [है० ३.०.५१.] पञ्चमः सर्गः। ३८९ असिघातम् । शस्याघातम् । इत्यत्र "तृतीयोक्तं वा" [५०] इति वा तत्पुरुषः॥ । अहितानकृतासूर्यपश्यान्स शरदृष्टिभिः।। है अपुनर्गेयवाक् क्रुद्धोश्राद्धभोजी द्विजो यथा ॥४८॥ ४८. सोर्बुदेश्वरोहितानरी शरवृष्टिभिः कृत्वा व्याप्तव्योमत्वात्सूयमपि न पश्यन्यसूर्यपश्यास्तानकृत चक्रे । कीदृक्सन् । क्रुद्धोत एव पुनर्न गेया न वक्तुं शक्या वाग्यस्मिन्स तथातिरौद्र इत्यर्थः । श्लेषोपमामाह । यथाश्राद्धभोजी श्राद्धं न भुत इतिव्रतोतिनैष्ठिक इत्यर्थः । द्विज: क्रुद्धोत एवापुनर्गेयवाक्सञ् शरवृष्टितुल्यैः शापवचनैरहितानपराद्धृनसूर्यपश्यानन्धान्करोति । अतिनैष्ठिकद्विजो हि कुपितः सत्यशाप एव स्यात् ।। वक्षोलवणभोजीवाकार्णवेष्टकिकान्स तान् । अवत्सीयानवध्यत्रोभि नासान्तापिकोभवत् ।। ४९ ॥ ४९. अवध्यान्वधाननि द्विजगोवत्सादीन्दैत्यत्वेन नन्ति ये तानवध्यन्नोत एवावत्सीयान्न वत्सेभ्यो हितांस्तान्दैत्यानभि इत्थंभूतेत्राभिः । सोर्बुदेश्वरः सांतापिक: "तस्मै योगादेः शक्ते" [६.४.९४] इतीकणे। संतापाय न शक्तो नाभूत् । द्वौ नौ सातिशयमर्थ गमयत इत्यत्यन्तं संतापाय शक्तत्वप्रकारमापन्नोभवत् । यतोकार्णवेष्टकिकान्कर्णवेष्टकाभ्यां न शोभमानान्कर्णाद्यगावयवच्छेदेन कुण्डलशोभारहितान् । स च कीदृक् । स्वक्षो जितकाशित्वेन प्रमुदितत्वात्पटुविकसितनेत्रोलवणभोजीव । यथा लवणमभुञ्जानो रक्ताशुद्रेकोत्थरोगाभावेन स्वक्षः स्यात् । अर्बुदेश्वरं हसिताक्षं वीक्ष्य प्रहारजर्जरिताङ्गाः शत्रवः संतेपुरित्यर्थः ।। १ सी श्राद्धं. २ ए सी ण । सांता . ३ बी तकांसित्वे'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy