SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३८८ व्याश्रयमहाकाव्ये मूलराजः] लानि शत्रुसैन्यानि परियुद्धानि युद्धाय परिग्लानानि नियुद्धानिए युद्धानिष्क्रान्तानि च व्यधात् । कीद्वंशि सन्ति । प्रतिलोमानि लोपानि प्रतिगतानि प्रतिकूलं गतानीति व्युत्पत्तिमात्रं लक्षणया द्विषन्ति । तथावेभानीभैरवक्रुष्टानि गजबृंहितोपेतानीत्यर्थः । तथा संवर्माणि वमणा संनद्धानि ॥ अतिक्रमे । अतिसिञ्चन् ॥ पूजायाम् । अतिराजा । इत्यत्र "अतिर" [४५] इत्यादिना तत्पुरुषः॥ आताम्र । इत्यत्र “आङल्पे” [४६] इति तत्पुरुषः ॥ प्रादयः । प्रभटान् । विपक्ष ॥ अत्यादयः । अतिवेलः । प्रतिलोमानि ॥ अवादयः । अवेभानि । संवर्माणि ॥ पर्यादयः । परियुद्धानि । उद्गणः ॥ निरादयः । निर्युद्धानि । अपभीः । इत्यत्र “प्रात्यव” [४७] इत्यादिना तत्पुरुषः ॥ पुनःप्रवृद्धरोमाञ्चपुनरुत्स्यूतकञ्चकः। परमारः सोसिघातं शख्याघातं द्विषोक्षिपत् ॥ ४७ ॥ ४७. पराञ् शत्रून्मारयति "कर्मणोण्" [५.१.७२] इत्यणि परमारः । परमारः क्षत्रियविशेषजातिः । सोर्बुदेश्वरोसिघातं खड्न हत्वा शरुयाघातं क्षुरिकथा हत्वा च द्विषोक्षिपन्निराकरोत् । कीडक्सन् । पुनः प्रवृद्धा वीररसोत्कर्षाद्भूयः स्फीतीभूता ये रोमाञ्चास्तैः पुनरुत्स्यूतो भूयस्तुटितः कञ्चुको वर्म यस्य स तथा ॥ पुनःप्रवृद्ध । पुनरुत्स्यूत । इत्यत्र “अव्ययम्” [४८] इत्यादिना तत्पुरुषः । परमारः । इत्यत्र "डस्युक्तं कृता" [४९] इति तत्पुरुषः ॥ १ ए सी युधाय, २ ए सी नियु. डी "नि यु. ३ सी. "नि प्रति प्र. ४ बी संबद्धा. ५ ए सी डी पः ॥ अता. ६ ए सी दय । अ. ७ ए बी सी मारक्ष. ८ सी पु. ९ बी वृद्धः । पु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy