________________
[ है० ३.१.१४.]
पञ्चमः सर्गः।
३८७
तृणानी.वोत्क्षेप्नुमुत्पाटयितुं शरदुर्दिनं शरैः कृत्वा प्रकाशाभावेन निन्दित दिवसं चक्रे । किं कृत्वा । असती कुत्सिता ज्या यत्र तदकुज्याक श्रेष्ठप्रत्यञ्च धन्व धनुः स्वीकृत्य । यतः कीदृक् । अदुष्कृतो महाशूरत्वादकृच्छ्रेण विहितो जयोनेकारिपराभवो येन सः । अनेकरणेपु लब्धजयपताक इत्यर्थः ॥
स्वीकृत्य । कुतृणवत् । इत्यत्र "गतिकु” [४२] इत्यादिना तत्पुरुषः ॥ अन्य इति किम् । अकुज्यकम् । अत्र बहुव्रीहित्वात्कच् स्यात् ॥ दुर्दिनम् । दुष्कृत । इत्यत्र "दुर्" [४३] इत्यादिना तत्पुरुषः॥ सुराजा । इत्यत्र "सुः पूजायाम्" [४४] इति तत्पुरुषः ॥
श्रीमालस्यातिराजातिसिञ्चन्नाताम्रदृक् शरैः। विपक्षमभटान्व्यामोदतिवेल इवार्णवः ॥४५॥ ४५. श्रीमालस्य भिल्लमालापरनाम्नः पुरस्यातिराजा न्यायपालनेन पूजितोधिपोर्बुदेश्वरो विरुद्धाः पक्षा विपक्षाः शत्रवो ये प्रभेंटाः प्रकृष्टा भटास्ताञ् शरैर्व्याप्नोदाच्छादयत् । कीहक्सन् । आताम्रकोपेनारक्ताक्षोत एव शरैरतिसिञ्चन् रणाङ्गणमतिक्रमेण व्याप्नुवन्नत एव चोत्प्रेक्ष्यते । अतिवेलो निर्मर्यादोर्णव इव ।।
प्रतिलोमान्यवेभानि संवर्माणि बलानि सः ।
उद्रणः परियुद्धानि नियुद्धान्यपभीय॑धात् ॥ ४६ ।। ४६. सोर्बुदेश्वरोपभीरपगतो भियोत एवोद्रणो रणायोयुक्तः सन्ब
१ ए सी डी भीव्यधा.
१ सी नीवाक्षेप्तु. २ ए सी डी यतो की . ३ ए सी पक्षाश. ४ बी भटाप्र. ५ डी रक्षाक्षो. ६ बी रैरिति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org