SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३८६ व्याश्रयमहाकाव्ये मू मूलराजः] नाम्ना सह यशःपर्यन्तं नामधेयपर्यन्तं वा यश:साकल्येन नाम । धेयसाकल्येन वा यशो नामधेयं वा यथा पश्चान्न स्थितमेवमित्यर्थः ॥ प्रहरन्स यथाधर्म सद्रोणं धनुषा वहन् । त्रायमाणो यथावस्तं तथा रेजे यथार्जुनः ॥ ३ ॥ ४३. यथार्जुनो रेजे तथा सोर्बुदेश्वरो रेजे यतो यथाधर्म क्षात्रधर्मस्यानतिक्रमेण प्रहरंस्तथा धनुषा धनुःकर्मणा कृत्वा सद्रोणं द्रोणाचार्यसादृश्यं वहंस्तथा यथात्रस्तं येये भीतास्तांस्त्रायमाणो रक्षन् । द्विपरि । अक्षपरि । शलाकापरि । इत्यत्र "संख्याक्ष" [३८] इत्यादिना. व्ययीभावः ॥ अध्याजि । उपनदि । सुभिक्षम् । दुःसुराष्ट्रम् । निःसुराष्ट्रम् । अतिम्लेच्छम् । अत्यस्त्रम् । अनुद्विपम् । अनुज्येष्ठम् । इतिमूलराजम् । सचक्रम् । सकुलम् । सकीर्ति ॥ साकल्येन्ते च । सार्णवम् । सनाम । इत्यत्र “विभक्ति" [३९] इत्यादिनाव्ययीभावः ॥ अनुरूपम् । प्रत्यरि । यथाधर्मम् । सद्रोणम् । इत्यत्र "योग्यता' [४०] इत्यादिनाव्ययीभावः ॥ यथात्रस्तम् । इत्यत्र “यथाथा" [१] इत्यव्ययीभावः ॥ अथा इति किम् । यथार्जुनः॥ स्वीकृत्याकुज्यकं धन्वोत्क्षेतुं कुतृणवत्परान् । सोदुष्कृतजयश्चके सुराजा शरदुर्दिनम् ॥४४॥ ४४. सुराजा न्यायित्वात्पूजितो नृपोर्बुदेश्वरः परान्कुतृणवदसार१ सी र्जुनो रे. १ ए सी अज्याजि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy