SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ [है० ३.१.३५. ] पञ्चमः सर्गः । ३८३ पारेरिचमु गङ्गापार | मध्येश्वम् इभमध्ये । अग्रेधिपम् कराग्रे । अन्तर्धनुः आज्यन्तः । इत्यत्र "पारे" [३०] इत्यादिना वाव्ययीभावः ॥ यावद्विषु । इत्यत्र " यावदियत्वे " [३१] इत्यव्ययीभावः ॥ परिक्लीबम् | अपार्तम् । आजयम् । बहिर्व्यूहम् । प्रागर्बुदम् । इत्यत्र “पैर्यपाड़" [३२] इत्यादिनाव्ययीभावः ॥ अभ्यश्वम् । प्रतिद्विपं प्रसृत्य । इत्यत्र "लक्षणेन" [३३] इत्यादिनाव्ययीभावः ॥ अनुजम्बुमालि स्थिता । इत्यत्र "दैर्घ्येनुः " [३४] इत्यव्ययीभावः ॥ अनुस्खाम्यनु नद्यास्ते तिष्ठपि वहद्भिव । युध्यमाना अमन्यन्त धारयन्तः श्रमप्रति ॥ ३८ ॥ 1 ३८. युध्यमानाः शत्रुषु प्रहरन्तस्तेर्बुदात्याच्या नृपास्तिष्ठन्ति गावो यस्मिन्काले दोहाय वत्सेभ्यो निवासाय जलपानार्थं वा तत्तिष्टद्वपि संध्याकालमप्यमन्यन्ताज्ञासिषुः । कीर्हेशम् । वहन्ति गावो यत्र चरणाय जलपानाय वा तद्वद्भिव प्रभातमिव संजातघटिकाद्वयप्रमाणदिनमिव । यतः श्रमप्रति खेदाल्पत्वं धारयन्तः । कुत एतदित्याह । यतोनुस्खामि स्वामिनः समीपे नद्या जम्बूमाल्या अनु समीपे च वर्तमानाः । समीपस्थे स्वामिनि श्लाघादि कुर्वाणे नादेयशीतलजललवोन्मिश्रवायुसंपर्के च श्रमो ह्यल्पीयान्स्यात् । एतेनैषामत्यन्तं युद्धरसिकत्वमुक्तम् ॥ अनुस्वामि । अत्र " समीपे” [३५] इत्यव्ययीभावः ॥ अनोरव्ययत्वाद् १ एसीयन्तं धा. १ डी इवम् अ. २ बी धेनु आ. ३ ए सी "पयुपा'. ४ सी दृशे । व ५ ए सी 'हग्विव. ६ सी मिन: स. ७ सी 'तेनेषा'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy