________________
३८२ घ्याश्रयमहाकाव्ये
[मूलराजः] न्वर्जयित्वापात चं प्रहारादिना पीडितांश्च वर्जयित्वा । तथा चावद्रिपु यावन्तो रिपवस्तार्वत इत्यर्थः । तथा आजयं विजयं मर्यादीकृत्य ॥
सेना प्रागर्बुदं राज्ञां बहिर्गृहं प्रतिद्रिपम् ।
अभ्यश्वं च प्रसृत्यानुजम्बुमालि स्थिता बभौ ॥ ३७॥ ३७. प्रागर्बुदमर्बुदाद्रेः प्राक्पूर्वदिग्वासिनां राज्ञां मूलराजनृपाणां सेना बभौ । कीहक्सती । बहिव्यूह मूलराजीयाञ्चक्रगरुडादेव्यूहादहिभूता । तथा प्रतिद्विपमभ्यश्वं च प्रसृत्य रिपूणां द्विपानश्वांश्च लैक्ष्यीकृत्याभिमुखं विस्तीर्यानुजम्बुमालि स्थितातिबहुत्वाजम्बूमाल्या लक्षणभूताया आयामेनावस्थिता । अर्बुदसेनातिशूरत्वान्यूहान्निर्गत्य युद्धार्थ शत्रूनभि प्रसृतेत्यर्थः ॥ कचाकचि । कुन्ताकुन्ति । इत्यत्र "तत्रादाय" [२६] इत्यादिनाव्ययीभावः॥ लोहितगङ्गम् । इत्यत्र "नदीभिर्नाम्नि" [२७] इत्यव्ययीभावः ॥ पञ्चनदम् । त्रिगोदावरम् । इत्यत्र "संख्या" [२८] इत्यादिनाव्ययीभावः ॥ अन्ये तु पूर्वपदप्राधान्येव्ययीभावो गोदावरीणां त्रित्वं त्रिगोदावरम् । समाहारे तु द्विगुरेवेत्याहुः । द्वयोर्गोदावर्योः समाहारो द्विगोदावरि ॥
द्विमुन्यस्य । सप्तकाशि स्वराज्यस्य । इत्यत्र “वंश्येन" [२९] इत्यादिनाव्ययीभावः ॥ यदा तु विद्यातद्वतामभेदविवक्षा तदैकमुनि धनुर्वेदमित्यादि सामानाधिकरण्यं स्यात् ॥
१ सी हं मूलराजी.
१ ए सी च प्राहा. २ ए सी डी वन्त इ०. ३ ए सी ४ सी डी क्षणाभू.
डी लक्षीकृ'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org