________________
[है० ३.१.२६.] पञ्चमः सर्गः।
३८१ त्रिगोदावरं च मेने । प्राणत्यागेन स्वर्गफलत्वाहिगोदावरित्रिगोदावरतीर्थयोस्तुल्यं मेन इत्यर्थः । लोके हि द्विगोदावरि त्रिगोदावरं च तत्र प्राणत्यागिनां स्वर्गहेतू महातीर्थे प्रसिद्ध । कीदृक्सन् । एको मुनिर्वंश्य आद्यः कारणपुरुषोस्य तदेकमुनि धनुर्वेदं धनुर्विद्याशास्त्रं दर्शयन्सदभ्यस्तधनुर्विद्यत्वेनालीढादिस्थानानि सम्यक्सत्यापयन् । तथास्य धनुर्वेदस्य द्विमुनि च द्वौ मुनी वंश्यौ च दर्शयन् द्विमुनिकृतधनुर्वेदोक्तधनु:कलानां सम्यक्सत्यापनेन द्वौ मुनी साक्षादिव दर्शयन् ॥
सप्तकोशि स्वराज्यस्य गङ्गापारपंतिः स्मरन् ।
पारेरिचमु मध्येश्वमिभमध्येर्दयन्ययौ ॥ ३५ ॥ ३५. गङ्गापारपतिर्गङ्गातीराधिपो मूलराजसेवकः काशिदेशराजः पारेरिचरौं शत्रुसेनापारं ययौ । कीडक्सन् । स्वराज्यस्य सप्तकाशि सप्रकाशीन्काशिदेशाधिपान्स्ववंश्यान्स्मरन् सप्तापि स्वानि कुलानि रणपारगतादिगुणोपेतानि परिभावयन्नित्यर्थः । अत एव मध्येश्वं तुरङ्गचमूमध्य इभमध्ये हस्तिचमूमध्येर्दयन्नरिचमूंनन् ॥
कोप्यन्तर्धनुराज्यन्तः कराग्रेग्रेधिपं शरान् । यावदिपु परिक्लीवमपात चाजयं न्यधात् ॥ ३६॥ ३६. कोपि गूर्जर आज्यन्ता रणमध्येोधिपं स्वस्वाम्यग्रे वर्तमानोन्तर्धनुश्चापमध्यभागे कराग्र आकर्णान्तमाकृष्टत्वाद्धस्तयोरग्रभागे च वर्तमानाब् शरान्यधाच्छत्रुष्वक्षिपत् । कथम् । परिक्लीवं निःसत्वा
१ ए सी कासि स्व. २ ए सी पति स्म'.
१ बी वरीती. २ ए सी शास्त्रद'. ३ बी च तु द. ४ ए सी मु सित्रु. ५ डी मध्ये ह.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org