________________
३८४ व्याश्रयमहाकाव्ये
मूलराजः] "विभक्तिसमीप” [३९] इत्यादिनैव समासे सिद्धे विकल्पार्थं वचनम् । तेन वाक्यमपि । अनु नद्याः॥ तिष्टट्नु । वहद्नु । इत्यत्र “तिष्ठंगु" [३६] इत्यादिनाव्ययीभावः ॥ श्रमप्रति । इत्यत्र “नित्यं" [३५] इत्यादिनाव्ययीभावः ॥
शलाकापर्यक्षपरि द्विपरीवाजयैः परैः। तेध्याज्युपनदि क्षुण्णैः मुभिक्षं रक्षसां व्यधुः॥ ३९ ॥ ३९. परैः शत्रुभिः कृत्वा तेर्बुदात्याच्या नृपा रक्षसां सुभिक्षं भिक्षाणां समृद्धिं व्यधुरनेके शत्रवो हता इत्यर्थः । किंभूतैः । अजयैनिःप(प्प)राक्रमित्वाजयरहितैः। शलाकापर्यक्षपरि द्विपरीवेति । एकया शलाकया द्विधाकृतमल्लकवंशादिमय्या तथैकेनाक्षेण पाशकेन तथा द्वाभ्यामक्षाभ्यां शलाकाभ्यां वा न तथा वृत्तं यथा पूर्वजय इति विग्रहः । सर्वत्र सप्तम्या लुक् । इवशब्दः प्रत्येकं संबध्यते । पञ्चिका नाम छूतं पञ्चभिरक्षैः शलाकाभिर्वा स्यात् । तत्र यदा सर्व उत्ताना अवाञ्चो वा पतन्ति तदा पातयितुर्जयोन्यथा पाते पराजयस्ततोयमर्थः । यथा प. ञ्चिकाद्यूत एकया शलाकयैकेनाक्षेण वा द्वाभ्यां शलाकाभ्यामक्षाभ्यां वान्यथापाते द्यूतकारा अजया जयरहिताः स्युः । अत एवाध्याँजि रण उपनदि जम्बुमालीसमीपे क्षुण्णैर्विदारितैः ।।
दुःसुराष्ट्र निःसुराष्ट्रमतिम्लेच्छं विधायिषु । तेष्वत्यत्रं ब्रुवन्तोनुद्विपं जग्मुर्द्विषद्भटाः॥४०॥ ४०. अनुद्विपं हस्तिनां पश्चाद् द्विषद्भटा दैत्या जग्मुः । प्राणरक्षार्थं
१ बी नद्या ॥. २ ए सी डी गु" इ. ३ ए सी यक्षिप. ४ बी पूर्व ज'. ५ सी थाते. ६ ए सी ते जप. ७ ए सी ध्यारिजि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org