SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३७८ व्याश्रयमहाकाव्ये [मूलराजः] हस्तकृत्य । पाणौकृत्य । इत्यत्र "नित्यं” [१५] इत्यादिना गतिः प्राक ॥ प्राध्वंकृत्य । इत्यत्र "प्राध्वं बन्धे" [१६] इति गतिः प्राक्क ॥ जीविकांकृत्य । उपनिषत्कृत्य । इत्यत्र “जीविका" [१७] इत्यादिना गतिः प्राक्क ॥ समासे नाम नाम्नेव शस्त्रं शस्त्रेण युध्यथ । ऐकायेंयोजि विस्पष्टपटुभिजेरै टैः॥२९॥ २. अथैवं दैत्यैर्युद्धस्य प्रारम्भानन्तरं युधि रणे समासे मिथः संबन्धेसत्यैकार्थे । निमित्तसप्तम्यत्र । विजयलक्षणैककार्येण हेतुना विस्पष्टपटुभिः प्रकटं शस्त्रविद्यानिपुणैर्गुजरै टैः शस्त्रं खड्गादि शस्त्रेणारिप्रहरणेन सहायोजि मीलितम् । यथैकार्थे सामानाधिकरण्ये सति यः समाँस ऐकपद्यं तस्मिन्नाम नाम्ना सह विस्पष्टपटुभिः प्रकटं शब्दविद्याचतुरैर्योज्यते ॥ समासे नाम नाम्नैकार्थे इत्युपमया "नाम नाम्ना' [१८] इत्यादि समाससंज्ञासूत्रं ज्ञापितम्। लक्षणं चेदमधिकारश्च । तेन बहुव्रीह्यादिविशेषसंज्ञाभावे यत्रैकार्थता दृश्यते तत्रानेनैव समाससंज्ञा स्यात् । यथा विस्पष्टपटुभिरित्यत्र गुणविशेषणस्य गुणवचनेन समासः ॥ त्रिदशारिषु ते द्विवानासन्नत्रानदूरपान् । अधिकाष्टानध्यर्धषान्युगपटषुः शरान् ॥ ३० ॥ ३०. ते गूर्जरभटास्त्रिदशारिषु त्रिर्दश त्रिदशा देवाः "प्रमाणीसंख्याडुः" [७.३.१२८.] इति डः। त्रिंशदेता देवतास्त्रयस्त्रिंशदेता देवतास्त्रिं १ सी इतत्र. २ बी कृत्त । इ. ३ ए सी कात्यत्र उ. ४ बी त्कृत । इ. ५ ए सी त्यैक्यार्थे । नि. ६ डी यत्समा. ७ सी डी मासे ऐ. ८ ए सी डी ससूत्रं सं. ९ बी विशिष्ट. १० ए सी त्रिदश त्रिर्दशा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy