SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ [है० ३.१.१४.] पञ्चमः सर्गः। ३७७ दोर्बलममिथ्याकृत्य शत्रुवधेन सत्यीकृत्यात एव खलान् गेहेशूरेणामुना रणे न किंचिनिष्पाद्यत इत्यसत्यभाषिणः पिशुनान्मिथ्या कृत्वा । तथा कीर्ति जयोत्थं यशो हस्तेकृत्य भायां कृत्वा ॥ पाणौकृत्य रिपोर्लक्ष्मी प्राध्वंकृत्यापरः परम् । खाम्याज्ञां जीविकाकृत्योपनिषत्कृत्य चाययौ ॥ २८ ॥ २८. अपरो दैत्य आययौ स्वामिसमीपमागतः । किं कृत्वा । परं शत्रु प्राध्वंकृत्य बन्धनेनानुकूलं कृत्वा बद्धा वा । तथा रिपोर्लक्ष्मी हस्त्यश्वादिकां पाणौकृत्य भार्या कृत्वा गृहीत्वेत्यर्थः । तथा स्वाम्याज्ञां जीविकाकृत्य जीविकामिव कृत्वा यथा जीवनोपायः सर्वादरेण क्रियते तथा कृत्वेत्यर्थः । उपनिषत्कृत्य चोपनिषदमिव कृत्वा च । यथा रहस्यं सर्वादरेण पाल्यते तथा पालयित्वेत्यर्थः ।। अतिरोभूय । इत्यत्र “तिरोन्तौं ” [९] इति गतिः प्राक्क ॥ तिरस्कृत्य तिरः कृत्वा । इत्यत्र “कृगो न वा"[१०] इति वा गतिः प्राक्क ॥ मध्येकृत्य मध्ये कृत्वा । पदेकृत्य पदे कृत्वा । निवचनेकृत्य निवचने कृत्वा । मनसिकृत्य मनसि कृत्वा । उरसिकृत्य उरसि कृत्वा । इत्यत्र "मध्ये पदे" [११] इत्यादिना वा गतिः प्राक्क ॥ उपाजेकृत्य उपाजे कृत्वा । अन्वाजेकृत्य अन्वाजे कृत्वा । इत्यत्र "उपाजेन्वाजे" {१२] इति वा गतिः प्राच ॥ अधिकृत्य अधि कृत्वा । इत्यत्र "स्वाम्येधिः" [१३] इति वा गतिः प्राक्क ॥ साक्षात्कृत्य साक्षात्कृत्वा । अमिथ्याकृत्य मिथ्या कृत्वा । इत्यत्र "साक्षाद" [१४] इत्यादिना वा गतिः प्राक्क ॥ ४ ए सीण:. १बी बैलं म. २ डी कृत्या. ३ बी डी निष्पद्य'. पशु. डी णः पशुभान्मि'. ५ ए सी डी क्षादिना. ४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy