SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ३७६ व्याश्रयमहाकाव्ये [ मूलराजः ] च । यशो रिपुजयोत्थकीर्ति मनसि कृत्वा च । जयमुरसिकृत्य च चित्ते कृत्वा च । च: सर्वत्र क्त्वान्तेषु योज्यः ॥ खकानुरसि कृत्वान्य उपाजेकृत्य सादिनः । पत्तीनुपाजकत्वान्वोजे भानयुध्यत ॥ २५ ॥ २५. अन्यो दैत्यनृपोयुध्यत । किं कृत्वा । स्वकाज्ञातीनुरसि कृत्वा स्वहृदयाग्रे कृत्वा । तथा सादिन उपाजेकृत्य । पत्तीनुपाजे कृत्वा । इभानन्वाजे कृत्वा । दुर्बलानां भग्नानां वाश्वारोहपदातिहस्तिनां बला ४ धानं कृत्वा ॥ अन्वाजे कृत्य पुत्रं वे पदे कोप्यधिकृत्य च । सैन्ये स्वमधि कृत्वाभात्साक्षात्कृत्यास्त्रदेवताः || २६ ॥ १६. कोपि दैत्यनृपोभाद्दिदीपे । किं कृत्वा । पुत्रमन्वाजे कृत्य दुर्बलस्य भग्नस्य वा बलाधानं कृत्वा । तथौ स्व आत्मीये पदे राज्ये - धिकृत्य च स्वामिनं कृत्वा च । तथा सैन्ये स्वमात्मानमधि कृत्वा स्वामीकृत्य । तथास्त्रदेवताः शस्त्राधिष्ठायिका दुर्गाद्या: साक्षात्कृत्य च पूजावलिमत्र स्मरणादिना प्रत्यक्षीकृत्य || साक्षात्कृत्वासिकृत्यां स्वममिथ्याकृत्य दोर्बलम् । मिथ्या कृत्वा खलान्कीर्ति हस्तेकृत्यापरोनदत् ॥ २७ ॥ २७. अपरो दैत्यानदज्जगर्ज । किं कृत्वा । असिरेवारि मृत्युहेतुत्वात्कृत्या मारिदेवता तां साक्षात्कृत्वा प्रत्यक्षीकृत्य । तथा स्वमात्मीयं १ ए बी सी डी कृत्येभा'. १ एसी कीर्ति म ४ ए सी डी रोपप. Jain Education International २ बी सर्वः क्त्वा ३ ए बी सी डी कृत्य । दु. ५ ए सी था वे आ. For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy