SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ [है० ३.१.९. ] पञ्चमः सर्गः । वल्गन्को प्यतिरोभूयाङ्गं तिरस्कृत्य वर्मणा । चर्मणां तिरः कृत्वा मध्येकृत्येभमप्यहन् || २२ ॥ २२. कोपि दैत्यभटो वल्गन्नृत्यन्सन्निभमपि । आस्तां पयश्वादि । महाबलं गजमप्यहन् । किं कृत्वा । अतिरोभूयाभयेनानिलीय रणाङ्गणे प्रकटीभूयेत्यर्थः । तथा वर्मणाङ्गं तिरस्कृत्याच्छाद्य तथांसं स्कन्धं चर्मणा स्फरण तिरः कृत्वापिधाय तथा मध्येकृत्य चिन्तयित्वार्थात्प्रहारप्रस्तावम् ॥ मध्ये कृत्वा नृपांस्तर्जन्पदेकृत्यापरो हयम् । पदे कृत्वा निवचने कृत्य वाचाजयत्परान् ॥ २३ ॥ ३७५ २३. अपरोन्यदैत्यभटो नृपान्मध्ये कृत्वान्तर्भाव्य नृपैः सहेत्यर्थः । पराञ् शत्रुभटांस्तर्जन्निर्भर्त्सयन्सन् वाचैव न तु प्रहारेणाजयत् । किं कृत्वा । यमश्वं पदेकृत्याहो अश्वरत्नमित्यादिकेस्त्याद्यन्तके पदे कृत्वा श्लाघित्वेत्यर्थः । ततः पंदे कृत्वा पादयोः कृत्वा युद्धार्थ चालवित्वेत्यर्थः । ततः परान्वाचा साक्षेपगिरा निवर्चनेकृत्य संक्षोभोत्पादनेन निर्वच नान्कृत्वा ॥ कश्चिन्निवचने कृत्वेशाज्ञां मनसिकृत्य च । यशो मनसि कृत्वोरसिकृत्य जयमुत्थितः ॥ २४ ॥ २४. कश्चिद्दैत्यो रणायोत्थितः किं कृत्वा । निवचने कृत्वा मौनं कृत्वा । ईशाज्ञां युद्धविधिविषयं स्वाम्यादेशं मनसिकृत्य च चित्ते धृत्वा १ सी 'शाज्ञाम १ ए सी डी त्यव्यादि. २ बी सी भूय भ. ३ सी 'र्था प्रा. ४ बी रोन्यो दें. ५ एसी पदेः कृ. ६ सी 'चकृ. ७ सी क्षोभ्योत्पा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy