________________
३७४ ब्याश्रयमहाकाव्ये
[मूलराजः] इत्यादिना प्रादिरुपसर्गसंज्ञः प्राक्क धातोः ॥ एषूपसर्गसंज्ञायां णत्वषत्वनागमाः सिद्धाः ॥ पूजार्थस्वत्यादिवर्जनं किम् । पूजार्थी स्वती । सुसिक्त । अतिसिञ्चन्तः । अत्रोपसर्गसंज्ञाया अभावे षत्वं न ॥ गतार्थावधिपरी । अध्युपलम्भाय । पर्यानिन्युः । अधिकभावः सर्वतोभावश्च प्रकरणोदेः प्रतीयत इति गतार्थत्वम् ॥ अत्र प्राक्स्वनियमाभावः । ततश्चोपलम्भायाधिनिन्युः । परीत्यपि स्वयमभ्यूह्यम् । पर्यानिन्युरित्यत्रानुपसर्गत्वापणश्च न स्यात् ॥अतिक्रमार्थोत्रातिः। अति स्थित्वा । अत्र षत्वं न स्यात् ॥
ऊर्यादि । ऊरीकृत्यानि । उररीकृत्य ॥ अनुकरण । घुट्कृत्य ॥ व्यन्त । स्वीकृत ॥ डाजन्त । पटपटाकृत्य ॥ चकारादुपसर्ग । प्रसृत्य । इत्यत्र "ऊर्यादि" [२] इत्यादिना गतिसंज्ञा धातोः प्राक्त्वं च ॥ गतित्वाद् "गतिः" [१.१.३६] इत्यव्ययत्वम् । “गतिकु” [३.१.४२] इत्यादिना समासश्च फलम् । एवमपि ज्ञेयम् ॥ कारिकाकृत्य । इत्यत्र “कारिकाo" [३] इत्यादिना गतिः प्राक्क ॥ अलंकृत्य । सत्कृत्य । असत्कृत्य । इत्यत्र “भूषादर'' [४] इत्यादिना गतिः
प्राक्क॥
अन्तर्हत्य । अदःकृत्य । इत्यत्र “अग्रह" [५] इत्यादिना गतिः प्राक्क ॥ कणेहत्य । मनोहत्य । इत्यत्र “कणे' [६] इत्यादिना गतिः प्राक॥ पुरस्कृत्य । अस्तनीय । इत्यत्र "पुर" [७] इत्यादिना गतिः प्राच ॥ अच्छेत्य । अच्छोद्य । इत्यत्र “गत्यर्थ" [4] इत्यादिना गतिः प्राक्क ॥
१ सी अध्याप. २ सी जादे प्र. ३ बी तिः ।. ४ बी णम् । ५. ५ ए सी डी प्रात्कः । अ. ६ ए सी डी गति प्रा. ७ सी "त्य “पु. ८ सी डी अच्छो . ९ सी डी "नातिः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org