SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ [है० ३.१.१.] पञ्चमः सर्गः । ३७३ प्रसृत्य रणाङ्गणे विस्तीर्य । तथा कारिकाकृत्य रणे स्थितिं यत्नं क्रियां वा कृत्वेत्यर्थः । तथा पत्तीन्सत्कृत्याधुना युष्माकं हस्तैर्जेष्यत इति वचनैर्वस्त्रद्रव्यदानादिना च बहु मानयित्वा ।। भग्नं कुन्तमसत्कृत्यालंकृत्यासि च पाणिना । अदःकृत्यान्तर्हत्यैकः कणेहत्य पयः पपौ ॥ २० ॥ २०. एकः कश्चिद्दैत्यभटः कणहत्य पयः पपौ । शत्रुवधेनातिसंतुष्टत्वाद्यावत्तृप्तस्तावज्जलं पीतवानित्यर्थः । किं कृत्वा । भग्नं शत्रुप्रहारेण कुंटितं कुन्तमसत्कृत्यानादृत्य । तथासिं च पाणिनालंकृत्य गाढं मुष्टिग्रहणेन भूषयित्वा गृहीत्वेत्यर्थः । तथादः कृत्यावश्यं मया शत्रुर्घात्य इति चिन्तयित्वा तथान्तर्हत्यारं मध्ये हिंसित्वा च ॥ यशः पिबन्मनोहत्यारेः पुरस्कृत्य विक्रमम् । अस्तंनीयारिमच्छेत्याच्छोद्य कोप्यनमत्प्रभुम् ॥ २१ ॥ २१. कोपि दैत्यभटः प्रभुमनमत् । यतोरेर्यशो मनोहत्य पिबन्या - वत्तृप्तस्तावत्पिबन्नत्यन्तं स्वीकुर्वन्नित्यर्थः । किं कृत्वा । विक्रमं शौर्य पुरस्कृत्याकृत्वा । ततोच्छेयं । अच्छेत्यभ्यर्थे दृढार्थे वा । अभिमुखं दृढं वा गत्वा । तथाच्छोद्याभिमुखं दृढं वोक्त्वा । एतेन च्छलपरिहार उक्तः । ततोरिमस्तंनीय क्षयं नीत्वा । जित्वा हि भटाः संतोषोत्पादनाय प्रभुं प्रणमन्ति || प्रणिघ्नन्तः । अभिषिक्ताः । उपलम्भाय । इत्यत्र "धातोः पूजार्थ" [3] १ डी पौ xxx शत्रु". १ सी डी यलक्रि. २ ए र्थः था. ३ ए सी 'तुष्टात्वा ४ बी 'ण त्रुटि. ५ डी कुण्ठितं. ६ सी "त्यान्यादृ ७ सी गाढमु. ८ बीत्यभ्य ९ डी °¿ à°• १० सी क्षयनी .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy