________________
३७२
व्याश्रयमहाकाव्ये
[मूलराजः मूर्धाभिषिक्ता ग्राहारेः प्रणिनन्तोथ ताश्चमः ।
आगुरंध्युपलम्भाय जयस्येषुसुसिक्तखाः॥१७॥ १७. अथ मूलराजसैन्यस्य युद्धोपक्रमानन्तरं ग्राहारेर्मूर्धाभिषिक्ता नृपा जयस्योध्युपलम्भाय प्राप्यायागुः । किंभूताः सन्तः । इषुसुसिक्तखाः शरैः सुष्टु व्याप्तीकाशा अत एव ता मूलराजीया युद्धायोद्यता. श्वमूः प्रणिनन्तः प्रहरन्तः॥
शरौघैरतिसिञ्चन्तः पर्यानिन्युर्दिशोन्धताम् ।
अति स्थित्वोररीकृत्योरीकृत्यानि धनूंषि ते ॥ १८ ॥ १८. शरौघैः कृत्वा दिशोतिसिञ्चन्तोतिव्याप्नुवन्तस्ते मूर्धाभिषिक्ता दिश एवान्धतां विलोकाभावाद्विच्छायत्वाच्चान्धा इवान्धास्तावं पर्यानिन्युः प्रापयन् । किं कृत्वा । अति स्थित्वातिकमार्थोत्रातिः । शवतिक्रमणालीढादिस्थानं कृत्वा तथोरीकृत्यान्यङ्गीकर्तु योग्यानि धनूंप्युररीकृत्याङ्गीकृत्य ॥
दैत्यैः पटपटाकृत्य घुसृत्य स्वीकृतासिभिः । प्रसृत्य कारिकाकृत्य पत्तीन्सत्कृत्य दध्वने ॥ १९॥ १९. स्वीकृतासिभिर्गृहीतख दैत्यैर्दानवनृपैः कर्तृभिर्दध्वने सिंहनादः कृतः । किं कृत्वा । पटपटाकृत्य त्वरया पादन्यासैः पटत्पटच्छब्दं कृत्वा घुसृत्य च शत्रुष्ववज्ञया घुडिति शब्दं कृत्वा च । तथा १ सी 'रध्याप. २ ए सी ति स्थत्वो'. १ ए सी रेमूर्धा . २ सी स्याध्याप. ३ ए सी भूता स. ४ बी सिक्ताखा. ५ सीतावराशा. ६ डी लोकमा . ७ बी च्छायित्वा. ८ सीलीतादि. ९ डी वा xx च । त.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org