SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ [है० २.४.११२.] पञ्चमः सर्गः । ३७१ वास्त्रभेद इव द्विट्टिपका । यद्वा । द्विड या क्षिपका तस्या ध्रुवकेवावपनभेद इव द्विद्विपका ध्रुवकारिवधार्थं क्षिपकास्त्रभृदस्तीत्यर्थ इति ॥ वर्तिकाम् वर्तकाभ्यः । इत्यत्र "वौ वर्तिका " [ ११० ] इतीत्वं वा निपात्यम् ॥ वाविति किम् | युद्वर्तिका ॥ जैटिलिका । इत्यत्र " अस्यायत्" [११३] इत्यादिनेकारः ॥ अनिस्कीत्येव । नन्दका । आशिष्यकन् ॥ यत्तत्क्षिपकादिवर्जनं किम् । यका । सका । क्षिपका । 3 ध्रुव ॥ रिकाम् । मामिका । इत्यत्र 'नरिका मामिका” [१२] इतीत्वं निपात्यम् ॥ तारकातारिकास्त्रत्विर्णकावर्णिका दिवः । जयेष्टकाप्रतिज्ञानां कीर्तेः खार्यष्टिका न्वभात् ॥ १६ ॥ १६. तारकातारिका नक्षत्रवद्दीप्रा सत्यत्रत्व शस्त्रप्रभाभात् । कीदृशी । दिवो व्योम्नः कर्मणो वर्णकावर्णिका । वर्णयति वर्णका तान्तवः पटविशेषस्तयेव कृत्वा वर्णिका श्येतवर्णीकारिकातिसान्द्रत्वाद्वापद्यां श्वेतयन्तीत्यर्थः । यद्वा । दिव: सबन्धित्वेन वर्णकानां पदभेदानां वर्णिकेव लेश इव । तथा जयेरिविजये सत्यष्टकायाः पितृदैवत्यकर्मणः प्रतिज्ञाभ्युपगमो येषां तेषां मूलराजसैनिकानां संबन्धिन्याः कीर्ते: सत्काष्टिकाष्टद्रोणप्रमाणा खारी नु । अस्त्रत्विट् सितत्वाहुलत्वाच्चैवमाशङ्किता । अष्टद्रोणामपि खारी केचिदिच्छन्ति ॥ तारका । वर्णका । अष्टका । इत्येते "तारका" [११३] इत्यादिना निपात्याः ॥ अन्यत्र | तारिका । वर्णिका । अष्टिका खारी ॥ अष्टमः पादः समर्थितः ॥ १ ए सी डी जटलि. २ ए वी सी 'निक्तीत्ये'. 'काम् । मा'. ५ बी मामकेति इति नि ६ बीट शास्त्र Jain Education International ३ बी 'नं य° ४ सी ७ सी षां । तथा मू". For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy