________________
३७० ध्याश्रयमहाकाव्ये
[ मूलराजः] चटकिकाः चटकका । इत्यत्र "स्वज्ञाज" [१०८] इत्यादिना वेकारः ॥ धातुत्यवर्जनं किम् । सुनयिकाः । निःशङ्किका । अमात्यिका ॥
द्विके द्वके । एषिका एषका । सूतिके सूतके । पुत्रिका पुत्रका । वृन्दारिका वृन्दारका । इत्यत्र "येष' [१०९] इत्यादिना वेकारः॥
द्विड्भ्यो हर्तुं श्रियं श्येनी वर्तकाभ्यो नु वर्तिकाम् । युद्वर्तिका जटिलिकोत्तस्थौ मींशबन्धुता ॥ १४ ॥ १४. युद्धर्तिका रणकृत्सती मर्वीशबन्धुता मूलराजसेवकमरुदेशाधिपबन्धुसमूहो द्विड्भ्यः सकाशाच्छ्रियं जयलक्ष्मी हर्तुमुत्तावुद्यताभूत् । कीदृशी। जटा: संश्लिष्टकेशाः क्षेप्याः सन्त्यस्या जटिलाज्ञाता जटिला जटिलिका लोमशा । स्वरूपविशेषणमिदम् । यथा श्येनी पत्रिणी वर्तकाभ्यश्चटकाभ्यः सकाशाद्वर्तिकां चटकां हर्तुमुत्तिष्ठति ॥
नन्दका वः सकास्तु द्विद्धिपका ध्रुवका यका।
भुजेति नरिकामूचुर्मामिकासीत्यहंयवः ॥१५॥ १५. नरानाद्भटान्कायति वर्णयति नरिका तां वृद्धस्त्रियं भट्टिनी वा मामिकासि मदीया त्वमित्यहंयवोहंकृता मूलराजयोधा ऊचुस्तव योगक्षेमौ वयं करिष्याम इति बहु मेनिर इत्यर्थः । कथं नरान्कायतीत्याह । सकाज्ञाता सा वो युष्माकं भुजानन्दकारिजाँद्वृद्धिहेतुरस्त्वाल्लोकानाम् । यकाज्ञाता या ध्रुवका दृढा सती द्विगु शत्रुषु क्षिपके
१ ए सी डी जटलि'. २ ए सी स्थौ मुर्वी. ३ ए सी
का दुव..
१ ए सी डी किका । चौ. २ ए सी डी स्वजाज. ३ ए डी °यिका । नि?. सी यिका । अ. ४ ए सी का । वृन्दिका । वृ. ५ बी इतत्र. ६ ए सी
स्थावद्य. ७ ए सी जटासं. ८ ए सी डी ला जटिलि'. ९ए सी डी वर्तिका. १० बी वृद्धिस्त्रि. ११ ए सी या वृद्धि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org